पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयोऽङ्कः।
(नेक्ष्ये।

 खागतं तपोधनायाः ।

(ततः प्रविशत्यध्वगवेषा तापसी ।)

 तापसी--अये वनदेवता फलकुसुमगर्भेण पल्लवायेण दूरान्मामुपतिष्ठते ।

(प्रविश्य ।)

 वनदेवता—(अर्ध्व वितीर्य )

  यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः
   सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति ।
  तरुच्छाया तोयं यदपि तपसां योग्यमशन
   फलं वा मूलं वा तदपि न पराधीनमिह वः ॥ १ ॥

 तापसी-किमत्रोच्यते ।

  प्रियप्राया वृत्तिर्विनयमधुरो बाचिनियमः
   प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।

 नेपथ्य इति। 'कुशीलवकुटुम्बस्य स्थली नेपश्चमिष्यते' इत्युक्ततिरस्करिणीतिरोहितनर्तनभूमिकापरिग्रहोपविकस्थानविशेष इत्यर्थः ॥ वनदेवतेति । पल्लवायेण पल्लवयुक्तपूजाद्रव्येण दुरात् प्रविष्टा सती उपतिष्ठते पूजयति । देवतात्यारोपादात्मनेपदम् । दूरादिवपादाने पञ्चमी । यद्वा मामुपतिष्टते संगता भवति । गला बमुनामुपतिष्टते' इतिवत् उभयत्रापि 'उपाद्देवपूजा-' इत्यादिना तङ् ॥ अयं वितीर्य दत्त्वा । यथेच्छमिति । इदम् । मदीयमित्यर्थः । वनं वनमेव न तु स्पृहणीयपुरप्रासादादिकमिल्यपरितोषो व्यज्यते । तथापि 'अविद्यमानं कर्गोऽपि' इति न्यायेन यवाधिकार सभाजयितब्यमेवेलाह-वथेच्छाभोग्य इच्छामनतिक्रम्य यथेच्छम् । यथेच्छे आभोग्यमिति विग्रहः । इच्छानिवृत्तिपर्यन्तमसंकोचेनोपभोगाहमित्यर्थः । व इति पूजायाँ बहुवचनम् । अतिथिसामान्यामिप्राचक वा अयं मे सुदिवसः साधुजनसंपका दिति भावः । सतां विद्यमानानामेव, न तु प्रसादनादिकुर्वतामित्यर्थः । सद्भिः साधुभिः सह सङ्गः संपर्कः कथमपि कृच्छ्रेण पुण्येन भवति साधुजनसंपर्कलाभः प्रणिपातादिसाध्यो भवति । तदभाववा तु दृष्टहेत्वभावात् केवलादृष्टसाध्यो भवतीति भावः । यद्वा कथमपि सता येनकेनप्रकारेण वर्तमानानाम् । कामचारे स्थितानामित्यर्थः। सद्भिः। ब्रह्मविद्भिरित्यर्थः । 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः । सङ्कः संपर्कः पुण्येन हि भवति । अयमाशयः-'तस्मादेवं विदा नासीत' इति श्रुत्या ब्रह्मज्ञानवतां तच्छून्यैः सहबासादिक प्रतिषिद्धम् । एवं च तेषां तैः सङ्गः पुण्यैकसाध्य इति । इद व खनिकर्षभावनाकार्चम् । फलं वा मूलं वा इतोऽन्यदपि तपसा योग्यमशनम् । नीवारपाण्डपत्रवातजलादिकमित्यर्थः । तदपि तच पराधीनं नेति ॥१॥प्रियेति । प्रियाया प्रिष-