पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
उत्तररामचरिते

  पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
   रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥ २ ॥

(उपविशतः।)

 वनदेवता-कां पुनरत्रभवतीमवगच्छामि ।

 तापसी-आत्रेय्यस्मि ।

 वनदेवता—आयें आत्रेयि, कुतः पुनरिहागम्यते । किंप्रयोजनो दण्डकारण्योपवनप्रचारः।

 आत्रेयी--

  अस्मिन्नगस्त्यप्रमुखाः प्रदेशे
   भूयांस उद्गीथविदो वसन्ति ।
  तेभ्योऽधिगन्तुं निगमान्तविद्या
   वाल्मीकिपादिह पर्यटामि ॥ ३ ॥

 वनदेवता-यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषि ब्रह्मपारायणायोपासते । तत्कोऽयमार्यायाः प्रवासः ।


प्रचुरा युक्ता चेत्यर्थः। वृत्तिः काथिकव्यापारः । तथापि वाकौर्ये महाग्दोष इखत आहबिनयमधुरो वाचिनियमः विनयेन खनिकर्षभावनारूपेण खोत्कर्षानमुसंधानरूपेण वा मधुरः प्रिथः वाचिनियमः सत्याय मितभाषित्वम् । तथापि मनोवृत्तिदौथ्य स्यादत आह-प्रकृत्या कल्याणी मतिः प्रकृल्या स्वभावतः कल्याणी प्रेचखिनी । तथाप्यसत्सवशाद्वैपरील स्यादत आह--अनवगीतः ।अनिन्दित इत्यर्थः । तदिद वृत्तिवाचिनियमादिपरिचयसमुदायरूपं विजयते सर्वोत्कर्षेण वर्तते । तत्कथंभूतमित्याह-पुरो वा पश्चाद्वा भूतभविष्यत्कालयोः। तत्तत्पुरुषसंनिधानयोरिति वार्थः अविपर्चासितरसं अन्यूनखभायम्। रसपदेन प्रियख व्यज्यते । अनुपधि निर्व्याज विशुद्ध प्रामादिकदोषरहित रहस्यम् । 'शोलं संवसता ज्ञेयम्' इति न्यायेन चिरकालशुश्रूषादिभिरेव ज्ञातुं शक्यं न तु दाम्मिकत्तिवत्स्वयं प्रकटमित्यर्थः । तथाविध तदिद विजयत इति योजना ॥२॥ अवगच्छामि जानामि ॥ किप्रयोजन इति । प्रचारः संचारः ॥ अस्मिन्निति । अगस्लप्रमुखा अगस्त्यप्रभृतयो भूयांसो बहव उद्गीथविदः । 'ओमित्युद्गीथमुपासीत' इति परस्मिन् ब्रह्मणि उद्गीथदृष्टि कुर्वन्त इत्यर्थः । दहरविद्यादीनामुपलक्षणम् । सकलवेदान्ततात्पर्य- पर्यालोचनशीला इति भावः । तेभ्यः अधिगन्तु तत्कृतव्याख्यानेन ज्ञातुम् । आख्यातोपचोगे' इति पञ्चमी । पर्यटामि । 'अट गतौ ॥३॥ यदातावदिति। पुराणश्चासौ ब्रह्मवादी चेति विग्रहः । ब्रह्म परमात्मानं वेदान्वा वदतीति णिनिः। पुराणत्वे प्राचेतसमिति हेतुकथनम् । ब्रापारायणाय वेदान्तविद्याध्ययनाचा पारायण नाम आदित आरभ्यान्तादवि-