पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
द्वितीयोऽङ्कः ।

 आत्रेयी-तस्मिन्हि महानध्ययनप्रत्यूह इत्येष दीर्घपदासोऽङ्गीकृतः।

 वनदेवता—कीदृशः।

 आत्रेयी-तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्वत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । तत्स्खलु न केवलं तस्य, आप तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपसहयात ।

 वनदेवता-अपि तयोर्नामसंज्ञानमस्ति ।

 आत्रेयी-तयैव किल देवतया तयोः कुशलवाविति नामनी च प्रभावश्चाख्यातः।

 वनदेवता—कीदृशः प्रभावः ।

 आत्रेयी--तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति ।

 वनदेवता—अहो नु भोश्चित्रमेतत् ।

 आत्रेयी—तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च । निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ । न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्याममदादेः सहाध्ययनयोगोऽस्ति । यतः।


च्छेदेनाध्ययनमुपासते । तदिति । प्रवासो देशान्तरगमनम् ॥ तस्मिन्निति । प्रत्यूहः विघ्नः ॥ तस्येति । स्तन्यत्यागमात्रं चस्सिमिति बहुव्रीहे: कम्प्रत्ययः । दारकद्वयं शिशुन्यम् । तदिति । तस्य वाल्मीके तिरश्चामपि मृगाणामप्यन्तःकरणानि हृदयरूपाणि तत्त्वानि पदार्थानुपन्नेहयति संनिधानीकरोतिथपीति । नान्नोऽभिलापकशब्दस्य संज्ञान संकेतसंबन्धकरणम् ॥ तयोरिति । जन्मसिद्धानि जन्मना ज्ञातानि, नतूपदेशेन ॥ तौ चेति । धात्रीकर्मत उपमातृव्यापारेण । पोषितौ क्षीरादिना वर्धिती। रक्षितौ । पिपीलिकादिभ्य इति भावः । निवृत्तेति । निर्धत्तं निष्पन्नम्। त्रयीवर्जे वर्जयिला । अङ्गान्यपीति शेषः । इतराः । आयुर्वेदो धनुर्वेदस्तथा गान्धर्वनामकः' इत्युक्ता इत्यर्थः । सावधानेन । बाल्मीकिनेति शेषः। परिनिष्ठापिताः सम्यड् निष्पादितातदनन्तरमिति। एकादसानां पूरणं एकादशम् । 'तस्य पूरणे' इति डटूप्रत्ययः । गर्मात् गर्भवर्षात् एकादश गर्भकादश तस्मिन्नित्यर्थः । “गौंकादशेषु राजन्यम्' इति स्मृतेः । करुप्यतेऽनुष्टीयतेऽनेनेति कल्पः अनुष्ठानपरिपाटीप्रकाशकग्रन्थः । न त्वेताश्यामिति । दीप्तिः