पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
उत्तररामचरिते

  क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु
   कायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥ १३ ॥

 रामः-किं नाम दण्डकेयम् । (सर्वतोऽवलोक्य 1) हा, कथम्

  स्निग्धश्यामाः कचिदपरतो भीषणाभोगरूक्षाः
   स्थाने स्थाने मुखरककुभो झांकृतैर्निर्झराणाम् ।
  एते तीर्थाश्रमगिरिसरिद्गतकान्तारमिश्राः
   संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥ १४ ॥

 शम्बूका-दण्डकैवैषा । अत्र किल पूर्व निवसता देवेन

  चतुर्दश सहस्राणि चतुर्दश च राक्षसाः ।
  त्रयश्च दूषणखरत्रिमूधोनो रणे हताः ॥ १५ ॥

येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः ।


केवलं प्रधानहिरण्यगर्भादिवत् कारणत्वम्, किंतु निरुपाधिकखामित्वं खीकृतमित्याह-लोकनाथ इति । 'एष सर्वभूताधिपतिः' इति श्रुतिः प्रत्यभिज्ञायते । पूर्वोकान्वेष्टव्यत्वादिफलमाह-शरण्य इति । 'एष सर्वभूतपाल:' इति श्रुतिः प्रत्यभिज्ञायते । तेन हि पालनसामर्थ्यमृते सर्वेश्वरत्वहानिरित्युपब्रहणात् हरहिरण्यगर्भादीनां रक्षकत्वशङ्कानिरासः । इदं च घण्टाकर्णादिविषये स्पष्टम् । वृषलकं अज्ञातो वृषलो वृषलकः तम् । अज्ञाते कन्प्रत्ययः । अनेन प्रयासेनान्वेषणीयत्वं खस्य सूच्यते । अन्विष्यन् । न तु चारादिनान्वेषयन्निति भावः । योजनानां शतानि अयोध्यादण्डकयोः योजनेयत्सानिश्चयेऽपि एवमुक्तिः कृत्स्नभूमण्डलान्वेषणानन्तरं अत्र प्राप्त इति सूचयति । तन्मूलं तु 'पृथिव्यां तप्यते तपः' इति अशरीरवाण्या पृथिव्यामिति सामान्योक्तिः । प्राप्तः । नतु मां दूतैः प्रापितवानित्यर्थः । वृषलक इत्यत्र वृषं धर्म लुनातीति वृषल इति व्युत्पत्त्या 'शुश्रूषा शूद्रस्य' इत्युक्तखधर्मच्छेदेन खतश्रतपश्चरणरूपखदोषाधीनत्वं विवक्षितम् । तपसा सेप्रसादः तपःकृतानुग्रहः । पुनरित्यनेन अपूर्ववनविलोकनस्पृहयान्यथासिद्धिचारिता । वनपदं दण्डकायामपि गमनप्रदेशत्वसूचनार्थम् । एवं सर्वप्रकारेणापि दुर्वटभबदागमनसंघटकत्वात् तपसां प्रसाद इति भावः ॥१३॥स्निग्धेति । श्यामाः नीलाः। आभोगः विपुलावकाशः। रूक्षाः चित्तक्षोभकराः। गर्ताः अवटाः ॥१४॥ चतुर्दशेति। दूषणखरत्रिमूर्धान इति । समासान्तविधेरनित्यत्वात् “द्वित्रिभ्यां ष मूर्ध्नः' इति षप्रत्ययाभावः । केचित्तु दूषणखरत्रिमूर्धा नः इति पदद्वयं कृत्वा नः अस्माकं रणे दूषणवरत्रिमूर्धाः हृता इति षप्रलयान्तमेव समर्थयन्ते । अस्माक्रमिति रामेण समाधिना दिव्यपुरुपबचनं पक्षक्याभिप्रायकम् । वस्तुतस्तु नौशब्दः पृथक्पदमित्याश्रित्य अत्र निवसता देवेन दूषणखरत्रिमूर्धाः हताः । नो किमिति काका योजनीयम् । इय व प्रत्यभिज्ञापनशैली गौरव्यविषयेष्वनुभवसिद्धा ॥ १५॥येनेति । सिद्धक्षेत्र सिद्धिप्रदपुण्यक्षेत्रे अकुतो-