तमसा----अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतमगैश्चर्य मन्दाकिन्याः । तकिमिति विशङ्कसे।
सीता---तदो अणुसरम्ह । (इति परिक्रामति ।)
रामः-भगवति गोदावरि, नमस्ते ॥
वासन्ती - (निरूप्य ।) देव, मोदख विजयिना वधूद्वितीयेन देव्याः पुत्रकेण ।
राम:--विजयतामायुष्मान् ।
सीता-अम्हहे, ईदिसो मे पुत्तओ संवुत्तो।
रामः-हा देवि, दिश्या वर्धसे ।
येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण
व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् ।
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता
यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥
सीता--अविउत्तो दाणिं दीहाऊ इमाए सोन्हदसणाए होदु ।
रामः -- सखि वासन्तिके, पश्य पश्य । कान्तानुवृत्तिचातुर्थमपि शिक्षितं वत्सेन ।
लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
र्यलेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥
१. ततोऽनुसरावः ।
२. अहो, ईदृशो मे पुत्रकः संवृत्तः ।
३. अवियुक्त इदानी दीर्घायुरनया सौम्यदर्शनया भवतु ।
अयीति । प्रकृष्टमुत्कृष्टम् । अत्र प्रस्तुतोत्कर्षाभियानरूपोदाहतिरुक्ता ॥ येनेति । तरुणे वयसि यत् कल्याणं अहनापरिष्वङ्गरूपं मङ्गले तस्य भाजन पात्रं जातः ॥१५॥ लीलेति । लीलया उत्खाताः उद्धताः मृणालकाण्डा एव कवला: ग्रासाः तेषां छेदेषु अवसानेषु पुष्यद्भिः वर्धमानैः पुष्करैः यौः वासितस्य सुरमितस्य पयसः जलस्य गण्डूषसमान्तयः पयःसंबन्धिगण्डूषसंक्रमणानि संपादिताः नियूढाः। अथवा पुष्यति