सीता--भअवदि तमसे, अयं दाव ईरिसो जादो दे उण पा आमामि एत्तिएण कालेण कुसलवा कीरिसा संयुत्तेत्ति ।
तमसा - यादृशोऽयं तादृशौ तावपि ।
सीता-ईरिसंम्हि मन्दभाइणी जाए ण केवलं अजउत्तविरहो पुत्तविरहो वि।
तमसा--भवितव्यतेयमीदृशी।
सीता-किंवा मए पसूदाए जेण एआरिसं मह पुत्तआणं ईसिविरलधवलदसणकुम्हलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिचुज्जलं मुहपुण्डरीअजुअलं ण परिचुम्बि अजउत्तण ।
तमसा-अस्तु देवताप्रसादात् ।
सीता-भअवदि तमसे, एदिणा अवच्चसंसुमरणेण उस्ससिदपण्हुदत्थणी दाणि वच्चाणं पिदुणो संणिहाणेण खणमेत संसारिणी संयुत्तम्हि ।
तमसा-किमत्रोच्यते । प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैतदन्योन्यसंश्लेषणं पिलोः ।
१. भगवति तमसे, अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावता कालेन कुशलचौ कीदृशौ संवृत्ताविति ।
२. ईदृश्यस्मि मन्दभागिनी यस्याः न केवलमार्यपुत्रविरहः पुत्रविरहोऽपि ।
३. किंवा मया प्रसूतया धेनैतादृशं मम पुत्रकयोरीषद्विरलधबलशनकुडालोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्ज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितनार्यपुत्रेण ।
४. भगवति तमसे, एतेनापत्यसंस्मरणेनोच्छसितप्रस्तुतस्तनी इदानी वत्सयो। पितुः संनिधानेन क्षणमानं संसारिणी संवृत्तासि ।
उपचयवति पुष्करे शुण्डाने बासितस्य संजातवासस्य पयसः जलस्य गण्डूषसंक्रान्तयः। लीलोत्खातमृणालकाण्डरूपकवलच्छेदेषु कवलार्धखण्डेषु । अधिकरणे सप्तमी । संपादिताः निब्यूँढाः । तत्र हि 'अच्छिद्राणि भूयासि' इति भावः । अनराकं अवकम् ॥१६॥ अनुबद्धमुग्धकाकलीबिहासित उत्पन्नसूक्ष्ममधुरास्फुटध्वनिमुग्धस्मितम् ॥ देवताप्रसाताहेवतानुग्रहात् ॥ प्रसव इति । पर्यन्तः परा कोटिः । अन्योन्यसंश्लेषणं अविना-