पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैरवधार्यते ॥ २९॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
प्रियाशोको जीवं कुसुममिव धर्मो ग्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ-
स्तदद्याप्युच्छासो भवति ननु लाभो हि रुदितम् ॥३०॥
राम:-कष्ट भोः, कष्टम् ।
दलति हृदयं शोकोद्वेगाविधा तु न भिवते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भससा-
महरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥
हे भगवन्तः पौरजानपदाः,
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत-
स्तृणमिव बने शून्ये त्यक्ता न चाप्यनुशोचिता।
चिरपरिचितास्ते ते भावास्तथा दवयन्ति मा-
मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ ॥
वासन्ती-(स्वगतम् ।) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम् ।) देव, अतिक्रान्ते धैर्यमवलम्ब्यताम् ॥
रामः-किमुच्यते धैर्यमिति ।
॥२८॥ अन्य इव पृथग्जन इव । पूरोत्पीड इति । पूरोत्पीडे स्रोतोभूयस्त्वे । परीवाह: जलनिःसारणम् । प्रतिक्रिया प्रतीकारः चिकित्सा । शोकक्षोभे शोकाधिक्यप्रयुक्तप्रकृति विपर्यासे । प्रलापैः परिदेवनैः ॥२९॥ बहुप्रकाराणि बटानि बहुविवानि दुःखानि यस्मिन् तथोक्तः । इदमिति । अभियुफेन तत्परेण विधिवत् यथाशास्त्र विलपन चासौ विनोदश्चेति विग्रहः । उच्वासः प्राणधारणम् ॥३०॥ 'दलतीति । दलति स्फुटदि । द्विधा न भिद्यते । पृथक्कारेण शकलद्वय न भवतीत्यर्थः । न कृन्तति न छिनत्ति ॥३१॥ न किलेति । देव्याः सीतायाः गृहे स्थान गृहस्थितिः न वाप्यनुशोचिता। तत्परित्यागहेतुकशोकोऽपि युष्माक नेति भावः । भावाः अभिप्राचाः तथा द्रवयन्ति वाचामगोचर यथा तथा विलापयन्ति । 'परिद्रवयन्ति' इलपि पाठः । रुब रोदन करोमि। भावे लट् । प्रसीदत्त प्रसादं कुरुत ॥ ३२ ॥ मन्बुभारस को गतिशयस्य आपूरणमाविष्करणम् ।