पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
तृतीयोऽङ्कः ।

  मरुन्नवाम्भ:परिधूतसिक्ता
   कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥

 सीता--(स्वगतम् ।) अवसेन एदेण अत्ताणएण सज्जाविदलि मअवदीए तमसाए । किंत्ति किल एसा मण्णिस्सदि एसो परिच्चाओ एसो अहिसङ्कोत्ति।

 रामः---(सर्वतोऽवलोक्य ।) हा, कथं नास्त्येव । नन्वकरुणे वैदेहि ।

 सीता--अकरुणझि जा एवं विहं तुम पेक्खन्दी एव जीवेमि ।

 रामः-कासि प्रिये । देवि, प्रसीद प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि ।

 सीता-अयि अजउत्त, विप्पदीवं विअ ।

 वासन्ती-देव, प्रसीद प्रसीद । खेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमि गतमात्मानम् । कुत्र मे प्रियसखी ।

 रामः--व्यक्तं नास्त्येव । कथमन्यथा वासन्त्यपि न पश्येत् । अपि खलु खाम एष स्यात् । न चामि सुप्तः । कुतो रामस्य निद्रा । सर्व-


 १. अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया । किमिति किलैषा मस्थत एष परित्याग एषोऽभिसङ्ग इति ।

 २. अकरुणास्मि यैवविध त्वां पश्यन्त्येव जीवामि ।

 ३. अयि आर्यपुत्र, विप्रतीपमिव ।


न संस्थापयामि न स्थिर करोमि ॥४२॥ कथं नास्त्येव नास्त्येवेति व्यक्तम् । स्फुटमित्यर्थः । कथमन्यथा वासन्ती न पश्येत् । अन्यथा सीताया अस्तित्वे वासन्ती कथ कस्माद्धेतोः न पश्येत् । खस्य भ्रान्तिशश्या वनदेवतायाः प्रमिति प्रकर्ष विभाच्च वासन्तीत्युक्तम् । एवं योग्यानुपलम्भेन सीताया नास्तिलं निश्चिय पूर्वोक्तस्पर्शनस्य अमरूपत्वं मीमांसते । अपि खलु खप्न एष स्यात् । एष सीतास्पर्शः खन्नः स्यात् । स्वानिकज्ञानविषयः स्यादिति संभावना । यद्वा एष सीतास्पर्शः खनः स्यात्खप्नावस्थोत्पादितः किमु । स्वप्नावस्थायां हि 'संध्ये सृष्टिराह हि इति सूत्रप्रामाण्यात् । तत्पुरुषानुभाव्यतत्तत्पदार्थसूधिः परमात्मकर्तृकाभ्युपगम्यते । विस्तरस्तूत्तरमीमांसायर्या द्रष्टव्यः । खप्नं प्रति सुप्तेः कारणत्वादाहन चास्मि सुप्त इति । तदुपपादयति ----कुतो रामस्य निद्रेति । 'अनिद्रः सततं रामः' इति सीतावियोगे रामस्य निद्रा नास्तीति प्रसिद्धमेवेति ननूपपत्तिरिति भावः । पर्यवसितमाह-सर्वथेत्यादिना । मम वासन्याश्चानुपलम्भाभिदाया अभावेन खप्नानुपपत्तेश्च सर्वप्रकारेणापि सीतास्पर्शनं भ्रमरूपमिति भावः । विप्रलम्भः भ्रमः । भगवानित्यनतिलकनीयत्वप्रयुक्तपूज्यताख्यापनार्थम् । अनुबन्नात्यनुसरति । दारुणया कठि-