थापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलग्भः पुनः पुनरनुबनाति माम् ।
सीता-मए एव दारुणाए विप्पलद्धो अजउत्तो।
वासन्ती-देव, पश्य पश्य ।
पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ-
स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः ।
खड्गच्छिन्नजटायुपक्षांतरितः सीतां चलन्तीं वह-
नन्तातवियुदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ॥
सीता--(सभयम् ।) अजउत्त, तादो बावादीअदि। ता परित्ताहि परित्ताहि । अहं वि अवहरिज्जामि ।
रामः-सवेगमुत्थाय ।) आः पाप तातप्राणसीतापहारिन् लापते, क यास्यसि ।
वासन्ती-अयि देव राक्षसकुलप्रलयधूमकेतो, किमद्यापि ते मन्युविषयः।
सीता-अम्हहे, उन्मत्तम्हि ।
१. मयैव दारुणया विप्रलब्ध आर्यपुत्रः ।
२. आर्थपुत्र, तातो व्यापाद्यते । तस्मात्परित्रायस्थ परित्रायस्त्र । अहम-
३. अहो, उद्धान्तास्मि ।
नया । विप्रलब्धः बञ्चितः । भ्रान्त इति वा ॥ पौलस्त्यत्स्येति । अयं दृश्यमानः । उद्देश्यसमर्पकमिदम् । कृष्णायसविकारः कामयसः । लोहमय इत्यर्थः । जटायुषा विघटितः प्रध्वंसितः । पौलस्त्यस्य रावणस्य रथ: स्यन्दनम् । विधेयसमर्षकमिदम् । एते पुरतः पुरोवर्तमानाः कङ्कालशेषा शरीरास्थिरूपशिष्टांशाः । ते पिशाचवदनाः खराः रावणस्यन्दनीयाः पिशाचमुखाः रासभाः खड़ेन छिया कृत्ता च सा जटायुपक्षतिश्चेति समानाधिकरणसमासः । इतः अत्र । पक्षतिः पक्षमूलम् । अन्तामृता रन्तश्चलन्ती विद्युत्तडियस्य तथोक्तः । अनेन दृष्टान्तेन रावणस्पर्शवशदोषो नास्तीति सूचितम् । अरिः रावणः । द्यां खमभ्युदस्वाभ्युदतवान् । इत इत्यस्माद्देशादिति वा ॥४३॥ आः पापेत्यादि । अत्र रोषसंभ्रमवचनरूम तोटक नाम संध्यमुक्तम् ॥ प्रलयाचूमकेतो प्रलयसूचकधूमकेतुनामकबहसदृशेति भावसंबुद्धिः । यद्वा राक्षसकुलस्य प्रलये धूमकेतुरमिः । राक्षसकुलदाहे प्रलयाग्निसदृशेत्यर्थः । मन्युविषयः क्रोधविषयः ॥ अन्य एव पूर्वसीतावियोगाद्विलक्षण एव विपर्ययः सीतावियोग-