पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२२

पुटमेतत् सुपुष्टितम्
१९
द्वितीयः सर्गः ।

 सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं खनच्छब्दायमानमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्वोत्सवे हर्ष उत्सुकमुत्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिमां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥

 नि1पातयन्त्यः 2परितस्तटद्रुमा-
  न्प्रवृद्धवैगेः सलिलैरनिर्मलैः ।
 स्त्रियः सु3दुष्टा इव जातिविभ्रमाः
  प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७॥

 निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्लावण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः समन्ततस्तद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्योवा सुदुष्टाः स्त्रिय इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्तथोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥

 तृणो4त्करैरुद्गतकोमलाङ्कुरै-
  र्विचित्र5नीलैर्हरिणीमुखक्षतैः ।

१. 'विपाटयन्त्यः.' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः'

४. 'चितानि.' ५. 'लेखैः'.