पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२४

पुटमेतत् सुपुष्टितम्
२१
द्वितीयः सर्गः ।

 1अभीक्ष्णमुच्चैर्ध्व2नता प3योमुचा
  घ4नान्धकारीकृतशर्वरीष्वपि ।
 तडित्प्रभादर्शितमार्गभूमयःः
  प्रयान्ति रागादभिसारिकाः स्त्रियः ॥१०॥

 अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता शव्दं कुर्वता पयोमुचामेघेन घनान्धकारीकृतशर्वरीप्वप्यघनान्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वयो रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागात्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्तीत्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इति ॥

 पयोधरैर्भीमगभीरनिस्वनै-
  स्त5डिद्भिरुद्वेजितचेतसो भृशम् ।
 कृतापराधानपि योषितः प्रिया-
  न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥

 पयोधरैरिति ॥ भीमो भयानको गभीरोगम्भीरो निस्वनो निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोष निर्हादनादनिस्वाननिस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशमत्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता योषितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी १ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्धकारावृत'. ५ 'ध्वनद्भिः'.