पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३७

पुटमेतत् सुपुष्टितम्
३४
ऋतुसंहारे

स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छन्तीत्यर्थः ॥

 व्योम क्वचिद्रजतशङ्खमृणालगौरै-
  स्त्य1क्ताम्बुभिर्लघुतया शतशः प्रयातैः।
 सं2लक्ष्यते पवनवेगचलैः पयोदै
  राजेव चा3मरवरैरु4पवीज्यमानः॥४॥

 व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरवर्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायोर्वेगेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैर्व्योमाकाशं क्वचित्कुत्रचिद्भागे चामरवरैश्चामर श्रेष्ठैरुपवीज्यमानो राजेव संलक्ष्यते दृश्यत इत्यर्थः ॥

 भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
  बन्धूकपुष्पर5चितारुणता च भूमिः ।
 वप्राश्च चा6रुकमलावृतभूमिभागाः
  प्रोत्क7ण्ठयन्ति न मनो भुवि कस्य यूनः ॥५॥

 भिन्नेति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमूहस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञं सुन्दरं नभ आकाशम् । बन्धूकानां जीवबन्धूकानां पुष्पैः कुसुमै रचिता कृतारुणता यस्याः सा तथोक्ता । 'बन्धूको बन्धुजीवकः' इत्यमरः । भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरावृता आ-

१ 'वीताम्बुभिः.' २ 'उत्प्रेक्षते.' ३ 'चामरशतैः.' ४ 'अपि वीज्यमानः; 'अभिवीज्यमानः.' ५ 'रजसारुणिता.' ६ 'पक्वकलमा.' ७ 'उत्कण्ठयन्ति.