पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४

पुटमेतत् सुपुष्टितम्

श्रीः ।
ऋतुसंहारम् ।
चन्द्रिकया समेतम् ।


प्रथमः सर्गः ।

यः समस्तविदुषां शिरोमणिर्येन राजति सभा विपश्चिताम् ।
तं महीश्वरकृताङ्घ्रिवन्दनं नीलकण्ठपितरं नमाम्यहम् ॥

 शृङ्गारैकप्रधानं यदृतुसंहारनामकम् ।
 काव्यं तत्कालिदासीयं व्याख्यास्येऽहं यथामति ॥
 अप्रचारतमोमग्ना कालिदासकृतिर्यतः ।
 क्रियतेऽतश्चन्द्रिकेयं विबुधानन्ददायिनी ॥

 अथ तत्रभवान्कालिदासनामा कविश्चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थम् 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य मङ्गलत्वेन तदन्यतरद्वस्तुनिर्देशरूपं मङ्गलमाचरन्नादौ ग्रीष्मकालवर्णनरूपां कथां प्रियायै कश्चिन्नायकः प्रस्तौति--

 प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
  सदावगाहक्ष[१]तवारिसंचयः ।
 दिनान्तरम्योऽभ्युपशान्तमन्मथो
  निदाघकालोऽय[२]मुपागतः प्रिये ॥ १ ॥

 प्रचण्डेति ॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन्स तथोक्तः ।


  1. 'क्षम.'
  2. 'समुपागतः.'