पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४४

पुटमेतत् सुपुष्टितम्
४१
तृतीयः सर्गः ।

त्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते दलप्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्तमुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥

 संपन्नशालिनिचयावृतभूतलानि
  [१]1स्वस्थस्थितप्रचुरगोकुलशोभितानि ।
 हंसैः स[२]सारसकुलैः प्रतिनादितानि
  सीमान्तराणि जनयन्ति नृ[३]णां प्रमोदम् ॥ १६ ॥

 संपन्नेति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन समूहेनावृतानि छादितानि भूतलानि येषां तानि तथोक्तानि । स्वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समुदायैः शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः सहितास्तैस्तथोक्तैर्हंसैः प्रतिनादितानि सीमान्तराणि नृणां जनानां प्रमोदं हर्षं जनयन्त्युत्पादयन्तीत्यर्थः ॥

 हंसैर्जिता सुललिता गतिरङ्गनाना-
  मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
 नीलोत्पलैर्मदक[४]लानि वि[५]लोकितानि
  भ्रूविभ्रमाश्च रु[६]चिरास्तनुभिस्तरंगैः ॥ १७ ॥

 हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया गतिर्हंसैर्जिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु


  1. 'सुस्थ'
  2. 'च सारस'
  3. 'जनप्रमोदम्.
  4. 'चलानि.
  5. 'विलोचनानि.'
  6. 'सरिताम्.'