हंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणेर्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरूपामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालिनीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥
शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गात्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वहन्ति । दिग्विभागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्दराः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य
२२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते-
करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
रचितकुसुमगन्धि प्रायशो यान्ति वेश्म
प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥
सुरतरुचिविलासाः सत्सखीभिः समेता
असमशरविनोदं सूचयन्ति प्रकामम् ।
अनुगतमुखराभिः श्रोणिमध्ये विनोदं
शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥