पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६१

पुटमेतत् सुपुष्टितम्
५८
ऋतुसंहारे

ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैविरुतै राजितं शोभितं तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् । प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वाख्या यस्य तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत्। तल्लक्षणं तु पूर्वमुक्तम् ।।

 निरुद्धवातायनमन्दिरोदरं
  हुताशनो भानुमतो गभस्तयः ।
 गुरूणि वासांस्यबलाः सयौवनाः
  प्रयान्ति कालेऽत्र[] जनस्य सेव्यताम् ॥ २॥

 निरुद्धेति । अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः। 'वातायनं गवाक्षः स्यात्' इत्यमरः । हुताशनोऽग्निर्भानुमतः सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि । सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य सेव्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥

 न चन्दनं चन्द्रमरीचिशीतलं
  न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
 न वायवः सान्द्रतुषारशीतला
  जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥

 नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा


  1. 'अद्य'.