पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६४

पुटमेतत् सुपुष्टितम्
६१
पञ्चमः सर्गः ।

 प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु निशासु रात्रिषु चिरं चिरकालं निर्दयं निर्दयतया दयाभावेन सहितं यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथोक्ता नवयौवनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अवसानं समाप्तिस्तस्मिन् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥

 मनोज्ञकू[१]र्पासकपीडितस्तनाः
  सरागकौ[२]शेयकभूषितोरसः ।
 निवेशितान्तःकुसुमैः शिरोरुहै-
  र्विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥

 मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पीडिताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं यत्कौशेयमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभितमुरो हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निविष्टान्यन्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरोरुहैः केशैर्हिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥

 पयोधरैः कुङ्कुमरागपिञ्जरैः
  सुखोपसेव्यैर्नवयौव[३]नोष्मभिः ।
 विला[४]सिनीभिः परिपीडितोर[५]सः
  स्वपन्ति शीतं परिभूय कामिनः ॥ ९ ॥


  1. 'कूर्पासनिपीडित'.
  2. 'कौशेयविभूषितोरसः'.
  3. 'यौवनोत्सवाः'; 'यौवनोत्सवः'.
  4. 'विलासिनीनाम्'.
  5. 'भृशम्'.