पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६६

पुटमेतत् सुपुष्टितम्
६३
पञ्चमः सर्गः ।

रिभुक्तं स्वं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मेराननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं मन्दिरं व्रजतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥

 अगुरुसुरभिधूपा1मोदितं केश2पाशं
  गलितकुसुममा3लं त॑न्वती कुञ्चिताग्रम् ।
 त्यजति गुरुनितम्वा निम्न5मध्यावसौना
  उषसि श6यनमन्या कामिनी चा7रुशोभान् ॥

 अगुर्विति ॥ अगुरोः सुरभिणा सुगन्धिना धूपेनामोदितः संजातसौरभस्तं तथोक्तम् । गलिता स्रस्ता कुसुममाला यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती । गुरुनितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सुन्दरशोभान्या कामिनी रूयुषसि प्रातःकाले शयनं पर्यङ्कम् । 'शयनं मञ्चपर्यङ्कपल्यङ्काः' इत्यमरः । त्यजति मुञ्चतीत्यर्थः । क्वचित्पुस्तके 'निम्नमध्यावसन्ना' इति पाठः । तदर्थस्तु निम्नेन मध्येनावसन्ना खिन्नेति निम्नमध्यावसन्ना । 'उषसि' इत्यत्र विवक्षाप्राप्तत्त्वान्न संहिता तदुक्तम्-'संहितैकपदे नित्या नित्या धातूपसगयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥' इति ॥

 कनककमलकान्तैः 8सद्य एवाम्बुधौतैः
  9श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।

१ 'आमोदितान्'. २ 'केशपाशान्'. ३ 'मालान्'. कुञ्चि- ताग्रं वहन्ती', 'धुन्वती कुञ्चिताग्रान्'. ५ 'निम्ननाभिः सुमध्या. ६ ‘शयनवासम्' 'शयनमध्या'. ७ 'कामशोभा;' 'कामशोभाम्".

८ 'चारुबिन्बाधरोष्टैः'. ९ श्रवणतटनिषिक्तैः ‘स्मरदमृतनिषक्तैः.