पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६८

पुटमेतत् सुपुष्टितम्
६५
पञ्चमः सर्गः ।

नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति प्रहाय त्यक्त्वा दिवसयोग्यं वेषं दधतीत्यर्थः ॥

 1नखपदचितभागान्वीक्षमाणाः स्त2नाग्रा-
  नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।
 अभिम3तरसमेतं नन्दयन्त्यस्तरुण्यः
  सवितुरुदयकाले भूषयन्त्याननानि ॥ १५॥

 नखपदेति ॥ नखपदैर्नखक्षतैश्चिता व्याप्ता भागा येषां तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । दन्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं स्पृशन्त्यः स्पर्शं कुर्वन्त्य एतमभितो मनोऽभिलषितो यो रसस्तं नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विलासवत्यः सवितुः सूर्यस्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः

 प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
  प्र4वलसुरतकेलिर्जात5कंदर्पदर्पः ।
 प्रियजनरहितानां चित्तसंतापहेतुः
  शिशिरसमय एष श्रेयसे वोऽस्तु6 नित्यम् १६

 प्रचुरेति ।। प्रचुरो बहुलो गुडविकारः खण्डशर्करादिर्यस्मिंस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानीक्षव इक्षुदण्डाश्च तै रम्यो रमणीयः । प्रबला अत्यधिकाः सुरतकेलयो यत्र तथाविधः । जातः संजातः कंदर्पदर्पो मन्मथा- १'नखपदकृतभङ्गान्. २ 'स्तनान्तान्'. ३ 'रतवेशम्'. ४ 'प्रसृत'.

५ 'शान्त.' ६ 'तेऽस्तु'.