पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७३

पुटमेतत् सुपुष्टितम्
७०
ऋतुसंहारे

कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पेणानङ्गेन समाकुलानि व्याकुलानि । 'कंदर्पो दर्पकोऽनङ्गः' इत्यमरः । गात्राणि शरीराण्युच्छासयन्त्यो नार्यः स्त्रियोऽधुना वसन्तकाले समीपवर्तिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्कण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥

 तनूनि पाण्डूनि स1मन्थराणि
  मुहुर्मुहुर्जुम्भणतत्पराणि ।
 अङ्गान्यनङ्गः प्रमदाजनस्य
  करोति लावण्यस2संभ्रमाणि ॥९॥

 तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्याङ्गानि गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसितानि । 'तत्परे प्रसितासक्तौ' इत्यमरः । लावण्येन सौन्दर्येण ससंभ्रमाणि संवेगसहितानि । 'समौ संवेगसंभ्रमौ' इत्यमरः । करोतीत्यर्थः॥

 नेत्रेषु लो3लो मदिरालसेषु
  गण्डेषु पाण्डुः क5ठिनः स्तनेषु ।
 मध्येषु नि6म्नो जघनेषु पीनः
  स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १०॥

 नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययुक्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु । 'लोचनं नयनं नेत्रम्' इत्यमरः । लोलश्चञ्चलः। गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः। १. 'मदालसानि', २. 'रसोत्सुकानि'. ३. 'लोलम्'; 'अलोलः'.

४. 'मदिरारसेषु'. ५. 'कठिनस्तनेषु'. ६. 'नम्रः'.