पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७४

पुटमेतत् सुपुष्टितम्
७१
षष्ठः सर्गः ।

स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेपु निम्नो गभीरः। जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा बहुप्रकारेण स्थित उपस्थित इत्यर्थः ।।

 अङ्गानि निद्रालसवि1भ्रमाणि
  वाक्यानि किंचिन्मद2लालसानि ।
 भ्रूक्षेपजिह्मानि च वीक्षितानि
  चकार कामः प्र3मदाजनानाम् ॥ ११ ॥

 अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथोक्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि । वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार कृतवानित्यर्थः॥

 प्रियङ्गुकालीय4कुङ्कुमाक्तं
  स्त5नेषु गौरेषु विलासिनीभिः ।
 आलिप्यते चन्दनमङ्गनाभि-
  र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥

 प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गोरेषु गौरवर्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जायकम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरीयुक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥ १. 'विह्वलानि'. २. 'मदिरालसानि; 'मदसालसानि'. ३. 'प्रमदोतमानाम्.'

४. 'कुङ्कुमानि'.५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तनारागेषु विचर्चितानि'.