मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारूणि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रबलैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूतस्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्यमानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्वन्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥
1कान्तामुखद्युतिजुषामपि चोद्गतानां
शोभां परां कुरवकद्रुममञ्जरीणाम् ।
दृष्ट्वा प्रिये 2सहृदयस्य भवेन्न कस्य
कंदर्पबाणपतनव्यथितं हि चेतः ॥ १८ ॥
कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च किंचोद्गतानां निर्गतानाम् । कुरबकद्रुमा अम्लानवृक्षास्तेषां मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरवकः' इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापीत्यर्थः । हिः पादपूरणार्थः ॥
आदीप्तवह्निसदृशैर्मरुतावधूतैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
१. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननातिमुषामचि- रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'.
३. 'निकरैर्व्यथितम्', 'पतनव्यथनम्'.