पुंस्कोकिलैः 1कलवचोभिरुपात्तहर्षैः
कूजद्भिरुन्मदकलानि 2वचांसि भृङ्गैः।
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥२१॥
पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्कोकिलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि वचनानि कूजद्भिर्मुङ्गभ्रमरैः । लज्जया त्रपयान्वितं युक्तं सविनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ।।
आकम्पयन्कुसुमिताः सहकारशाखा
विस्तारयन्परभृतस्य वचांसि दिक्षु ।
वायुर्विवाति हृदयानि हरन्न3राणां
नीहारपातविगमात्सु4भगो वसन्ते ॥ २२॥
आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्रवृक्षस्य शाखाः । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य । 'वनप्रियः परभृतः कोकिलः पिकः' इत्यमरः । वचांसि वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहरन्विवाति विशेषेण वहतीत्यर्थः ।।
१. 'फलरसैः समुपात्तहर्षेः'. २. 'विलोचनानि'; 'वचांसि धीरम्.
३. 'वधूनाम्'. ४. 'विमलः.'