आम्रीति ॥ यस्याम्र्याम्रसंबन्धिनी मञ्जुला सुन्दरा मञ्जरी वरशरा उत्कृष्टा वाणाः सदुत्तमं किंशुकं पलाशकुसुमं धनुः । यस्यालिकुलं भ्रमरसमूहो ज्या गुणः । यस्य कलकरहितं सितं श्वेतं छत्रं सितांशुश्चन्द्रः । यस्य मत्तेभो मत्तगजो मलयानिलो मलयसंबन्धी पवनः । यस्य वन्दिनो वैतालिकाः परभृतः कोकिलाः । लोकजिद्वसन्तेनान्वितो युक्तः सोऽयं वितनुरनङ्गो वो युष्मभ्यं भद्रं कल्याणं वितरीतरीतु ददात्वित्यर्थः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं तु वृत्तरत्नाकरे- 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति ॥
पूजितो न जगदीश्वरो मया
नापि विश्वजननी सुसेविता ।
किंतु यत्प्रलपितं निजेच्छया
तत्र सद्गुरुकृपैव कारणम् ॥
वेदचन्द्रवसुभूमि-(१८१४ )-वत्सरे
माघसूर्यसितपञ्चमीतिथौ ।
व्योमपुष्करनगै-(७००)-र्मिताकृतिः
पूरिता हि मणिरामशर्मणा ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
वसन्तवर्णनं नाम षष्ठः सर्गः ।