पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८८

पुटमेतत् सुपुष्टितम्

[३]

किं किं वक्रमुपेत्यं चुम्बसि बलान्निर्लज्ज लज्जा न ते
 वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्वञ्चसे ।
खिन्नाहं तव रात्रिजागरतया तामेव याहि प्रियां
 निर्माल्योज्झितपुष्पदामनिकरे का षट्पदीनांरतिः॥
वाणिज्येन गतः स मे गृहपतिर्वार्तापि न श्रूयते
 प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता।
बालाहं नवयौवना निशि कथं स्थातव्यमेकाकिनी
सायं संप्रतिवर्ततेपथिक हे स्थानान्तरंगम्यताम् १२
यामिन्येषा बहलजलदैर्बद्धभीमान्धकारा
 निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखैः ।
बाला चाहं खलु खलभयात्प्राप्तगाढप्रकम्पा
 ग्रामश्चौरैरयमुपहतः पान्थ निद्रां जहीहि ॥१३॥
क्व भ्रातश्चलितोऽसि वैद्यकगृहे किं तद्रुजां शान्तये
 किंते नास्ति सखे गृहे प्रियतमा सर्वं गदं हन्ति या।
वातं तत्कुचकुम्भमर्दनवशात्पित्तं तु वक्रामृता-
 च्छ्लेष्माणं विनिहन्ति हन्त सुरतव्यापारकेलिश्रमात्
यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
 स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते १५
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
 माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते
 हा हन्त प्रमदावियोगसमयः कल्पान्तकालायते १६