पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/९०

पुटमेतत् सुपुष्टितम्

[५]

वक्षो निधाय भुजपञ्जरमध्यवर्ती
 धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥
हे रोहिणि त्वमसि रात्रिकरस्य भार्या
 एनं निवारय पतिं सखि दुर्विनीतम् ।
जालान्तरेण मम वासगृहं प्रविश्य
 श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥
अविदितसुखदुःखं निर्गुणं वस्तु किंचि-
 ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारुण्यघूर्ण-
 न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥२४॥
एनं पयोधरयुगं पतितं निरीक्ष्य
 स्वेदं वृथा वहसि किं हरिणायताक्षि ।
स्तब्धो विवेकरहितो जनतापकारी
 योऽत्युन्नतः प्रपततीति किमत्र चित्रम्॥ २५ ॥
 अयि मन्मथचूतमञ्जरि
  श्रवणव्यायतचारुलोचने ।
 अपहृत्य मनः क्व यासि त-
  त्किमराजन्यकमत्र राजते ॥ २६ ॥
यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा
 विदलति तनुमध्या दीयतां नौ न दोषः।
पृथुनिविडकुचाभ्यां वर्त्म पश्यावरुद्धं
 कथयितुमिव नेत्रे कर्णमूले प्रयातः॥२७॥