पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्त

श्री श्रीनिवासपरब्रह्मणे नमः

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

प्रथमवली

हरिः ओं

॥ उशन् ह वै वाजश्रवसस्सर्ववेदसं ददौ।

तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

अतसीगुच्छसच्छायमवितोरस्स्थलं श्रिया ।

अञ्जनाचलीगारमञ्जलिमेम गाहताम् ॥

व्यासं लक्ष्मणयोगीन्दं प्रणम्यान्यान् गुरूनपि ।

व्याख्यास्ये विदुषां प्रीत्यै कठवलीं यथामति ।

उशन् ह वै वाजश्रवस इति । उशन्-कामयमानः । ‘ वश कान्ता । वित्यस्माच्छतरि प्रहिज्येत्यादिना संप्रसारणम् । ह वै इति वृत्तार्थस्मरणार्थं ( निपातौ । फलमिति शेषः । वाजश्रवस:=वाजेन अन्नेन दानादिकर्मभूतेन श्रवः कीर्तिः यस्य स वाजश्रवाः । तस्यापत्यं वाजश्रवसः । रूढिर्वा वाजश्रवस इति । स किल ऋषिः विश्वजिता सर्वस्वदक्षिणेन यजमानः तस्मिन् क्रतो, सर्ववेदसं-सर्वस्वं ददौ-दत्तवानित्यर्थः । उशदित्यनेन कर्मणः काम्यत्वाद्दक्षिणा सागुण्यमावश्यकमिति सूच्यते । आस-बभूव । ‘ छन्दस्युभयये' ति लिटस्सर्व धातुकवात् ‘स्वस्तये ताथै मित्यादिवदस्तेर्भभावाभावः ॥ १ ॥

तह कुमारसन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । सोऽमन्यत ॥ २ ॥

तं ३ कुमारं सन्तमिति । त—नचिकेतसं कुमारं सन्तं—आम्रमेव सन्ती, अक्षिभ्यो दक्षिणञ्च गोडु नयमानासु सतीषु श्रद्ध-आस्तिद्धिः पितृति