पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

प्रयुक्ता आविवेश - आविष्क्ती । यद्यपि यदानतिकरं द्रव्यं । तद्दक्षिणेत्युच्यते । एका चासौ क्रतावानतिरिति तदुपाधिको दक्षिणाशब्दः एकवचनान्ततमेिव लभते । अत एव नामकैकाहक्रौ ‘तस्य धनुर्दक्षिणे'त्यत्र कृत्स्नस्य गवश्वदेः प्राकृतस्य दाक्षिण्यस्य निवृत्तिरिति ‘तस्य धेनुरिति गवा मिति दाशमेिकाधिकरणे स्थितम् । तथापि दक्षिणाशब्दोयं श्रुतिवचनः । स च कर्मापेक्षयापि प्रवर्तते, अस्मिन्कर्मणीयं भूतिरिति । कर्तुरपेक्षयापि प्रवर्तते, अस्मिन्कर्मण्यस्य पुरुषस्येयं भूतिरिति । ततश्च ऋत्विग्बहुत्वापेक्षया दक्षिणबहुत्वसंभवात् दक्षिणास्विति बहुवचनमुपपद्यते । अत एव ऋतपेये ‘औदुम्बरस्सोमचमसो दक्षिणा स प्रियाय सगलाय ब्रह्मणे देय ! इयत्त एकवाक्यतापक्षे ब्रहभागमान्नेपि दक्षिणाशब्दस्यावयवलक्षणामन्तरेण मुख्य- स्वोपपतेस्तन्मानबाध इत्युक्तं दशमे ‘यदि तु ब्रह्मणस्तदूनं तद्विकारस्स्या' दित्यधि करणे । ततश्च । क्रत्वपेक्षया दक्षिणैक्येपि ऋत्विगपेक्षया दक्षिणाभेदसंभवाद्दक्षिण स्विति बहुवचनस्य नानुपपतिरिति द्रष्टव्यम् ॥ २ ॥

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा
नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३ ॥

श्रद्धाप्रकारमेव दर्शयति--पीतोदका इति । पीतमुदकं याभिस्ताः पीतोदकाः। जधं भक्षितं । तृणं याभिस्ताः जग्धतृणाः । दुग्धः दोहः क्षीराख्यो याभिस्ताः दुग्धदोहः न निरिन्द्रियाः --अप्रजननसमर्थाः । जीर्णा निष्फला इति यावत् । थ एवंभूता गावः ताः ऋत्रिभ्यो दक्षिणबुद्धया। ददत् प्रयच्छन् अनन्दाः असुखः ते–शास्त्रसिद्धा लोकास्सन्ति नाम-खलु । तान् स यजमानो गच्छति । एवममन्यतेयर्थः ॥ ३ ॥

स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं
तृतीयं तदोवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

स होवाच पितरमिति । दीयमानदक्षिणवैगुण्यं मन्यमानः नचिकेता स्वामदा- नेपि पितुः क्रतुसाद्वैगुण्यनिच्छन् आस्तिकाग्रेसरः पितरमुपगम्योवाच । तत-हे तात की अस्विजे दक्षिषधं मां दास्यसीति । एवञ्चकेनापि पिना उपेश्वभणोपि