पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कठोपनिषत्

यथा। पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुख५रात्रीश्शयिता वीतमन्युस्त्वां दृशिवान्मृत्युमुखात्प्र
युक्तम् ।। ११ ।।

एवमुक्तो मृत्युः प्रत्युवाच—यथा पुरस्तादिति । यथापूर्वं त्वयि हृष्टो भविता । उद्दालक एव औद्दालकिः । अरुणस्य अपत्यं आरुणिः । द्वयामुष्यायणो वा । उद्दालकस्यापत्यं अरुणस्य गोत्रापत्यमितिवाऽर्थः । मत्प्रसृष्टः- मदनुज्ञातः । मदनुगृहीतस्सन् । मदनुग्रहादित्यर्थः । सुखमिति । त्वयि गतमन्युस्सन् उत्तरा अपि रात्रीस्सुखं शयिता । लुट् । सुखनिद्रां प्राप्स्यतीति यावत् । दृशिवान् दृष्टवान् सन्नित्यर्थ । वसन्तोऽयं शब्दः । दृशेश्धति वक्तव्यमितेि कसोरिट् । छान्दसो द्विर्वचनाभावः । मत्प्रसृष्टमितिं द्वितीयान्तपाठे प्रोषितं त्वामिति योजना ॥

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया
बिभेति । उभे तीत्वी अशनायापिपासे शोकातिगो मोदते
स्वर्गलोके ।। १२ ।।

नचिकेता वरं द्वितीयं प्रार्थयते – स्वर्गे लोक इत्यादिना मन्त्रद्वयेन । अत्र स्वर्गशब्दो मोक्षस्थानपरः । यथा चैतत्तथोत्तरत्र बक्ष्यते । हे मृत्यो त्वं तल न प्रभवसि । जरायुक्तस्सन्न बिभेति जरातो न बिभेति । तत्र वर्तमानः पुरुष इति शेषः । उभे इति । अशनाया बुभुक्षा । अत्रापि स्वर्गशब्दो मोक्षस्थानपरः ॥ १२ ॥

स त्वमग् िस्वर्गमध्येषि मृत्यो प्रबूहेि त५श्रद्धधानाय
मह्यम् । स्वर्गलोका अमृतत्वं भजन्ते एतदद्वितीयेन वृणे
वरेण ॥ १३ ।।

स त्वमिति । पुराणादिप्रसिद्धसावैश्यस्त्वं स्वर्गप्रयोजनममिं जानासि । 'स्वर्गा दिभ्यो यद्वक्तव्य' इति प्रयोजनमित्यर्थे यत् । स्थण्डिलरूपामेः स्वर्गप्रयोजनकत्वं च उपासनाद्वारेति उत्तरत्र स्फुटम् । श्रद्धधानाय-मोक्ष सिद्धयतीत्यत्राह-स्वर्गलोका इतेि । स्वर्गे लोको येषां

  • परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति

कत्वात् स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येति भाव माता