पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथम
श्रीरङरामानुजमुनिविरचितभाष्ययुक्ता

प्रते ब्रवीमि तदु मे निबोध स्वग्र्यममेिं नचिकेतः प्रजा
नन् । अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेनं निहितं
गुहायाम् ॥ १४ ।।

एवमुक्तो मृत्युराह-प्र ते ब्रवीमीति । प्रार्थितवते तुभ्यं प्रब्रवीमि ।' व्यवहिता श्चे' ति व्यवहितप्रयोगः । मम उपदेशाज्जांनीहीत्यर्थः । ज्ञानस्य फलं दर्शयति- स्वर्यमन्निमिति । अनन्तस्य विष्णो:लोकः तत्प्राप्तिम् । 'तद्विष्णोः परमं पद' मित्युत्तरत्र वक्ष्यमाणत्वात् । अथो तत्प्राप्यनन्तरं प्रतिष्ठां अपुनरावृति च । लभत इति शेषः । तद्भज्ञानस्येदृशसामथ्र्यं कथं संभवतीति मन्यमानं प्रत्याह विद्धीति । ब्रह्मोपासनाङ्गतया एतद्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहायां निहितं अन्ये न जानन् ि । त्वं जानीहोति भावः । यद्वा ज्ञानार्थकस्य विदेलभाथै कत्वसंभवान् अमेिं प्रजानंस्वं अनन्तलोकातिं प्रतिष्ठां लभस्चेत्युक्त हेतुहेतुमद्भावः सिद्धो भवति । प्रजानन् लक्षणहेत्वोरिति शतृप्रत्यय ॥ १४ ॥

लोकादिभ ितमुवाच तस्मै या इष्टका यावतीर्वी यथा
वा । स चापि तत्प्रत्यबद्द्यथोक्तमथास्य मृत्युः पुनरे
वाह तुष्टः ।। १५ ।।

अनन्तरं श्रुतिवाक्ये लोकादिमग्रिमिति । लोकस्य आदि हेतुं । स्वग्र्यमिति यावत् । तमाममुवाच । यलक्षणः इष्टकाश्चेतव्याः यत्संख्याकाः येन प्रकारेण चेतव्याः तत्सर्धमुक्तवानित्यर्थः । यावतीरिति पूर्वसवर्णश्छान्दसः । स चापीति । स च नचिकेताः तत् श्रुतं सर्वं तथैवानूदितवानित्यर्थः । अथास्येति । शिष्यस्य अहूणसामथ्र्यदर्शनेन सन्तुष्टस्सन् मृत्युः पुनरप्युक्तवान् ॥ १५ ॥

तमुभ्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।
तवैव नाझा भवितायममिः सृङ्कां वमाभनेकरूपां गृहाण ॥ १६॥

तमब्रवीदिति । सन्तुष्य महामना मृत्यु नचिकेतसमब्रवीत् । पुनश्चतुर्थे