पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
कठोपनिषत्

कं मुख्या वृत्या? उत अमुल्या ? नाद्यः । स्वर्गापवर्गमार्गाभ्यां, स्वर्गापवर्गयोरेकं न स्वर्ग नापुनर्मवे, स स्वर्गस्यासर्वान्प्रत्यविशिष्टत्वात् ' इत्यादिप्रयोगेष्वपवर्गप्रतिद्वं द्विवाचितया लोकवेदप्रसिद्धस्य स्वर्गशब्दस्य मोक्षुबाचित्वाभावात् । 'श्रुक्सूर्यान्तरे यत्तु नियुतानि चतुर्दश । स्वर्गलोकस्स कथितो लोकसंस्थानचिन्तकै ' रिति पुराण वचनानुसारेण सूर्यध्रुवान्तर्वर्तिलोकविशेषस्यैव स्वर्गशब्दवाच्यतया तत्रैव लैविक वैदिकव्यवहारदर्शनेन मोक्षस्थानस्यातथात्वात् । नाप्यमुख्ययेति द्वितीयः पक्षः । मुख्यार्थे बाधकाभावात् । किमत्र प्रश्नवाक्यगतं जरामरणराहित्यामृतत्वभाक्वा द्विकं बाधकम् ? उत प्रतिवचनगतजरामृत्युतरणादि? उत क्षयिष्णुस्वर्गस्य सर्व मविभुखनचिकेतःप्राथ्यमानत्वानुपपतिर्वा? नाद्यः । स्वर्गलोकवासिनां जरा मरणक्षुत्पिपासाशोकादिराहित्यस्य अमृतपानादमृतत्वप्राप्तश्च पुराणेषु स्वर्गस्वरूपकथन प्रकरणेषु दर्शनात्, ' आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते' इति स्मरणात् अत्रैव ' अजीर्यताममृतानामुपेत्ये 'ति मृत्यावप्यमृतशब्दप्रयोगदर्शनाच स्वर्गलो कवासिनामेब ब्रह्मोपासनद्वारा 'ते ब्रह्मलोके तु परान्तकाल' इति श्रुत्युक्तरीत्या अमृतत्वमासेस्संभवेन * स्वर्गलोका अमृतत्वं भजन्त' इत्यस्योपपत्तश्च आपेक्षिका मृतत्परतया लोकवेदनिरूढौपसंहारिकामृलशब्दानुसारेण प्रक्रमस्थानन्यथासिद्ध विशेष्यवाचिस्वर्गशब्दस्यान्यथानयनासंभवात् । न हि देवदत्तोऽभिरूप इत्युक्त अभिरूपपदस्वारस्यानुसारेण देवदत्तपदस्यात्यन्ताभिरूपयज्ञदत्तपरत्वमश्रीयते । न । द्वीतीय । 'त्रिणाचिकेतस्मिभिरितेि मन्त्रस्य स्वर्गसाधनस्यैवाग्नेस्त्रिरभ्यासे जन्म मृत्युतरणहेतुभूतब्रह्मविद्याहेतुत्वमस्तीत्येतदर्थकतया स्वर्गशब्दस्य मुख्यार्थपरत्वाबाध कत्वात् । अत एव ततुल्यस्य 'करोति तद्येन पुर्न जायते' इत्यस्यापि न स्वर्ग शब्दमुख्यार्थबाधकत्वम् । नापि क्षयिष्णोः स्वर्गस्य फलान्तरविमुखनचिकेत प्रार्थयैमानत्वानुपपत्तिरितेि तृतीयः पक्षः । स्वर्गसाधनाग्निप्रश्नं प्रतिबुक्ता हितैषिणा मृत्युना अष्टऽपि मोक्षस्वरूपे 'अनन्तलोकप्तिमथो प्रतिष्ठां, त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू ' इत्यादिनोपक्षिसे उत्पन्ना मुमुक्षा ‘अन्यं वरं नचिकेतो वृणीष्वेति प्रतिषेधेन दृढीकृता । तस्यां च दशायां क्रियमाणा क्षयिष्णुफलनिन्दा प्रचीनस्वर्गग्रार्थनायाः कथं वाचिका स्यात् । * श्रेो भावा मर्यस्ये! त्यादौ मर्यभोग निन्दाय एव दर्शनेन स्वर्गनिन्दाय अदर्शनात् । स्पझब्स्य मोक्षफूत्वे तस्य