पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
[प्रथम
श्रीरङरामानुजमुनिविरचितभाष्ययुक्ता

ज्ञानैकसाध्यतया तत्प्रयोजनकत्वस्यामावभावात् उपक्रमोपसंहारमध्याभ्यस्तस्वर्गशब्द पीडाप्रसङ्गात् । सन्तु वा प्रतिवचने बाधकानि, अथाप्युपक्रमाधिकरणन्यायेन पथ मस्थमश्नवाक्यस्थस्वर्गशब्दस्यैव प्रबलत्वात् । न च 'भूयसां स्यात्सधर्मत्व 'मिति न्यायात् भूयोनुग्रहार्थ अल्पस्योपक्रमस्य बाध्यत्वमस्त्विति वाच्यम् । 'मुख्यं वे' ति सूत्रे औपसंहारिकबद्दपेक्षयापि मुख्यस्यैव प्राबल्योक्तः । तस्मात्स्वर्गशब्दस्य मुख्यार्थ परित्यागे न किञ्चित्कारणमिति ।

अत्रोच्यते—स्वर्गशब्दस्य मुख्ययैव वृत्या मोक्षवाचित्वम् । स्वर्गकामाधि करणे नागृहीतविशेषणन्यायेन स्वर्गशब्दस्य प्रीतिवचनत्वमेव, न प्रीति विशिष्टद्रव्यवचिता इत्युक्तवा, ननु स्वर्गशब्दस्य नागृहीतविशेषणन्यायेन प्रीतिवचनत्वे सिद्धेपि देहान्तरदेशान्तरभोग्यमीतिवाचिता न सिद्धयेत् । न च यस्मिन्नोष्ण 'मितेि वाक्यशेषाद्विध्युद्देशस्थस्वर्गशब्दस्य प्रीतिविशेषवाचितानिश्चय इति वाच्यम् । प्रीतिमात्रवाचित्वेन नेिणतशक्तिकतया सन्देहाभावेन * सन्दिग्धे तु वाक्यशेषादिति न्यायस्यानवतारादिति परिचोद्य यद्यपि लोक एव स्वर्गशब्दस्य निर्णीतार्थता, तथापि लोकावगतसातिशयसुखवाचित्वे तत्साधनत्वं ज्योतिष्टोमादीनां स्यात् । तथा चाल्पधनरायाससाध्ये लौकिके तदुपायान्तरे संभवति न बहुधन नरायाससाध्ये बह्वन्तराये ज्योतिष्टोमादौ प्रेक्षावान् प्रवर्तत इति प्रवर्तकत्वं ज्योतिष्टोमादिविधेर्न स्यात् । अतः वाकयशेषावगते निरतिशयप्रीतिविशेषे स्वर्ग शब्दस्य शक्तौ निश्चितायां वाक्यशेषाभावस्थलेपि यववराहादिष्विव स एवार्थः । लौकिके सातिशयप्रीतिभरिते गुणयोगादेव वृत्तेरुपपतेर्न शक्तयन्तरकल्पना । न च प्रीतिमात्रवचनस्यैव वर्गशब्दस्य वेदे निरतिशयप्रीतिवाचित्वमस्त्विति वाच्यम् । निरतिशयत्वांशस्यान्यतोऽनवगतत्वेन तत्रापि शक्तयवश्यंभावेन स्वर्गशब्दस्य लोकवेदः येोरनेकार्थता स्यात् । यदा तु वैदिकप्रयोगावगतनिरतिशयप्रीतिवाचिता, तदा साति शये लैकेि प्रीतित्वसामान्ययोगाद्वैौणी वृत्तिरिति मीमांसकैर्निरतिशयसुखवाक्स्यैिव समर्थितया मोक्षस्य स्वर्गशब्दवाच्यत्वे विवादायोगात्, पार्थशब्दस्यार्जुन इव तदितर पृथापुत्रेषु प्रचुरप्रयोगाभावेऽपि पार्थशब्दमुख्यार्थत्वानपायवत् स्वर्गशब्दस्य. सूर्य वान्तर्तिलेकगतसुखविशेष इव अन्चल प्रचुरप्रयोगाभावेपि वाच्यत्वानपणात् ।