पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
११
कठोपनिषत्

बर्हिराज्थादिशब्दानामसंस्कृततृणघृतादिष्वथैरप्रयुज्यमानानामपि अस्त्येव तद्ववित्वम्। केषां चिदमयोगमात्रस्य शक्तयभावासाधकत्वात् । अतस्तृणत्वादिजातिवचना बहिंरादिशब्दा इति बर्हिराज्याधिकरणे स्थितत्वात् । तदुक्तं वार्तिके-'एकदेशेपि यो दृष्टः शब्दो जातिनेिबंधनः । तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता इति । ततश्च स्वशब्दो मोक्षसाधारण एव ।

ननु बहिँराज्यादिशब्देषु असंस्कृततृणघृतादौ आर्यप्रयोगाभावेपि अनार्य प्रयोगसत्वात् असंस्कृतवाचिताऽस्तु नाम । स्वर्गशब्दस्य सूर्यधुवान्तर्वर्तिलोकसुख विशेषातिरिक्तस्थले नियमेनाप्रयोगात्तद्वयावृतैव शक्तिरभ्युपगन्तव्या । अत एव प्रेोद्रात्रधिकरणे उद्भातृशब्दस्य ऋत्विग्विशेषे चोदूतुरेकत्वेन 'प्रैतु होतुश्धमसः प्रोद्भातृणामिति बहुवचनार्थबहुत्वासंभवात् तदन्ब यार्थ रूढिपूर्वकलक्षणया अपसुब्रह्मण्यानामेकस्रोस्रसंबन्धिनां त्रयाणां वाससुब्रह्मण्यानां चतुर्णा वा उद्भात्रादीनां छन्दोगानां ग्रहणमित्येतद्विरुध्येत तथाहेि -- अहीनाधि करणे *तिस्र एव साहस्योपसदः द्वादशाहीनस्ये' त्यत्र अहीनशब्दस्य 'अह ख:क्राता' वेिति व्याकरणस्मृत्या खप्रत्ययान्ततया अहर्गणसामान्यवातिया व्युत्पादितस्याप्यहीनशब्दस्य नियमेन सत्रे अयोगादहर्गणविशेषरूढिमङ्गीकृत्य ज्योतिष्टोमस्थाहर्गणवेिशेषत्वाभावादहीन इति योगस्य रूद्विपराहतत्वेन योगेन ज्योतिष्टोमे वृत्त्यसंभवात् ज्योतिष्टोमप्रकरणाधीताया अपि द्वादशाहोनयेति द्वादशोपसत्ताया अहर्गणविशेोत्कर्ष इत्युक्तम् । तथा * पाय्यसान्नाप्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीष्वि 'ति व्याकरणस्मृत्या सामिधेनीमात्रवाचितया व्युत्पदि तस्यापि धाय्याशब्दस्य न सामिधेनीमालवचनत्वम् । नापि धीयमानत्वरूपयोगार्थ वशेन धीयमानमालवचनत्वम्, स्तुतिशस्त्रार्थतयाधीय मोनाक्षु ऋक्षु सामिधेनीमात्रे अपितु * पृथुपाजवत्यौ धाध्ये भवतः' इत्यादिवैदिक प्रयोगविषयेषु थुपाजवत्यादिष्वेवं धांय्याशब्दस्य शक्तिरिति 'समिधमानवर्ती समिध्यवर्ती चान्तरा तद्धाय्यास्यु' रिति पञ्चमिकाधिकरणे स्थितम् । एवमादिकं सर्व विरुद्धयेत । स्वशब्दे त्वदुक्तरीत्या प्रयोगाभावेऽमि शक्तिसंभवे उद्भात्रादि शब्दानां ऋविग्विशेषवि. झाडेराल्पनीयत्वादितिजेत्-क्षयम् । मदिसर्वाश्म तद