पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
१३
कठोपनिषत्

वैदिकी वैदिकत्वेन सामान्येनोपतिष्ठते ।

लैौकिकी त्वसमानत्वान्नेोपस्थास्यत्यपेक्षिता ॥' इति

न च यचेकं यूपं स्पृशेदेषते वायवेिति ब्रूयादितेि विहितस्य ‘एष ते वायाविति वचनस्य वैदिकत्वसामान्येन विहितवैदिकयूषस्र्शनिमित्तकत्वमेव स्यात् । नचेष्टापतिः । लैौकिके दोषसंयोगादि' ति नावमिकाधिकरणविरोधप्रसङ्गादिति वाच्यम् । 'यूपो वै यज्ञस्य दुरिष्टमामुञ्चते तस्मादूो नोपस्पृश्य' इति प्रतिषिध्य यद्येकं यूपं स्पृशेत् एष ते बायाविति ब्रयादि' ति अनन्तरमेव िवहितस्य प्रतिषिद्धप्रायश्चित्तसांकांक्षलैौकिकस्पर्श विषयत्वावश्यंभावेन वैदिकविषयत्वासंभवेपि असति बाधके वैदिकविषयत्वस्य युक्त त्वात् । अतएव 'यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्व पेदि' ति विहितेष्टिर्वेदेक एवाश्वदाने, न तु * न केसरिणो ददाती' ति निषिद्धे प्रायश्चित्तसापेक्षे सुहृदादिभ्यः खेहादिना क्रियमाण इति निर्णीतं तृतीये । तथा योगिनः प्रतिस्मर्यते स्मातेंचैते । इति सूत्रे मार्तस्य वेदान्ते न प्रत्यभिज्ञानमित्युक्त परैः । ततश्च 'स्वर्गे लोक ' इति मन्त्रे अध्यात्मशास्रसिद्धस्यापहतपाप्मत्वादिब्रह्म गुणाष्टकस्यैव ग्रहृणमुचितम् । 'स्वर्गलोका अमृतत्वं भजन्त । इति द्वितीयप्रश्न मन्त्रे अमृतत्वभाक्तवश्रवणादमृतत्वशब्दस्याध्यात्मशास्त्रे मोक्षएव प्रयोगात्।‘अजीर्यता ममृताना' मित्यत्र अमृतशब्दस्यापि मुक्तपरत्वेनापेक्षिकामृतत्वपरत्वाभावात् । उत्तरत्र 'ततो मया नचिकेतश्चितोरिनित्यैव्यैः प्रातवानस्मि नित्यम् । अभयं तितीर्षतां पारं नचिकेतं शकेमहि' इति पस्यैव ब्रह्मणो नाचिकेताभिप्राप्यत्वकथनेन स्वर्ग शब्दस्य प्रसिद्धस्वर्गमरत्वासंभवात्।'नान्यन्तस्मा नचिकेता वृणीते'इति ब्रक्षेतरविमुख तया प्रतिपादितस्य नचिकेतसः क्षयिष्णुस्वर्गप्रार्थनानुपपत्तेश्च । 'मुख्यं वा पूर्वचोदना लोकवदि'त्यत्र समसंख्याकयो:परस्परविरोध एव मुख्वस्य प्राबल्यम् । न ह्यष्पवैगुण्ये संभवति बहुवैगुण्यं प्रयोगवक्नं क्षमते । अतः यत्र जघन्यानां भूयस्त्वं तत्र ‘भूयसां स्यात् सधर्मत्वं ' इति न्याय एव प्रवर्तत इत्येव मीमांसकैः स्थिरीकृत्य सिद्धान्ति तत्वात्, प्रतर्दनविद्यायां 'एष व साधु कर्मकारयति' एष लोकाधिपतिरेषलोकपाल आनन्दोऽजरोऽमृतः' इत्यौपसंहारिकपरमात्मधर्मबाहुल्येन प्रक्रमश्रुतजीवलिङ्गबाधस्य