पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
प्रथम
श्रीरङ्गरामानुजभुििवरतिभाष्ययुक्ता


येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नाऽयमस्तीति चैके ।

एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २१ ॥

नचिकेता आह-येयं प्रेत इति । “ अत्ता घराचरग्रहणादित्यधिकरणे इमं मन्त्रं प्रस्तुत्येत्थं हि भगवता भाष्यकृता .– “अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्ष याथास्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्वजिज्ञासयाऽयं मद्भः क्रियते । एवं च 'येयं प्रेत ! इति न शरीरवियोगमान्नाभिप्रायम् । अपितु सर्वबन्ध विनिर्मोक्षाभिप्रायम् । यथा “न प्रेत्य संज्ञास्ती 'ति। अयमर्थ:-मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषयः वादिविप्रतिपत्तिनिमित्ता अस्तिनास्यात्मिका येयं विचिकित्सा तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं वेिद्यां जानीयामिति । तथाहि बहुधा विप्रतिपद्यन्ते । केचिद्वितिमालस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्ष माचक्षते । अन्येतु वेित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । परे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे अपहतपाप्मानं परमात्मा नमभ्युपगच्छन्तः तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं-मोक्ष मातिष्ठन्ते । त्रय्यन्तनेिष्णातास्तु निखेिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्त ज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणाकरस्य सकलेतर विलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्य अनुकूलापरिच्छिन्न ज्ञानस्क्रूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्योच्छेदपूर्वकस्वाभाविक परमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युरिति भाषितम् ॥ तथा 'त्रयाणामेव चैव 'मिति सूत्रे 'तृती येन क्षेण मोक्षस्वरूपमझद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकमनुगृहीतोपासन माया च निशेिधापतिक्षश्चत् वाक्यार्थज्ञानस्योपायता स्यात् । उभयलिङ्गकं प्राप्यं चेतथा बेनेोपासनमुपायः स्यात् । अतः मोक्षस्वरूपज्ञानं तदनुबन्धिज्ञानापेक्ष'भिति वर्णितम्। अतः येयं प्रेत इत्यस्य मुक्तस्क्रूपमझफ्रत्वमेव, नदेहातिरिक्तपारलौकिकर्मानुष्ठानोप