पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
२३
कठोपनिषत्

तं दुर्दर्श गृढमनुप्रविष्ट गुहाहितं गह्वरे पुराणम् । अध्यात्म

योगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

तृतीयं प्रक्षं प्रतिवक्ति-तं दुर्दर्शमित्यादिना मन्त्रद्वयेन । दुर्दर्श-श्रवणायपि बहुभिर्यो न लभ्य: इत्युक्तरीत्या द्रष्टुमशक्यम् । गूढं-तिरोधायककर्मरूपाविद्यातिरो हितं सर्वभूतानुप्रविष्टं गुहाहेितं—हृदयगुहावर्तिनं गह्वरेटं अन्तर्यामिणं पुराणं अनादिं अध्यात्भयोगाधिगमेन-विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समव धानमध्यात्मयोगः । यच्छेद्वाङ्मनसी प्राज्ञः, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सहे। त्यादिना वक्ष्यमाणः । तेन योयमधिगमः जीवात्मज्ञानं तेन हेतुना देवं परमात्मानं मत्वेत्यर्थ । जीवात्मज्ञानस्य परमात्मज्ञानहेतुत्वादिति भावः । हर्षशोकौ विषयलाभा लाभप्रयुक्तहर्षशोकौ जहातीत्यर्थः ।। १२ ।।

एतच्छूत्वा संपरिगृह्य मर्यः प्रवृह्य धम्र्यभणुमेतमाप्य। स मी

दते मोदनीय हेि लब्ध्वा विवृतःसद्म नचिकेतसं मन्ये ।। १३ ।।

एतच्छूत्वा संपरिगृह्यति । एतत् आत्मतत्त्वं श्रुत्वा संपरिगृह्य – मनादिकं कृत्वेत्यर्थः । धम् कर्मसाध्यं शरीरदि प्रवृह्य पृथक्कृत्य परित्यज्येत्यर्थः । एतं स्वात्मभूतं अगुं सूक्ष्मतया चक्षुराद्यगोचरं * अणीयान् ह्मतक्यमिति ' निर्दिष्ट परमात्मानं देशविशेषे प्राप्य सः विद्वान् मोदनीयं प्रीतिविषयमपहतपाप्मत्वादि गुणाष्टकविशिष्ट स्वस्वरूपं लब्ध्वा मोदते आनन्दी भवतीत्यर्थः । ‘एष सम्प्रसादोऽ स्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते , स तत्र पथात जक्षत् क्रीडन् रममाणः इति श्रुत्यर्थोऽलानुसन्धेयः । एवं प्रक्षेोत्तरमुक्तवा नचिकेतसं मोक्षा र्हत्वेन स्तौति- विवृतं सदेति । नचिकेतसं प्रति ब्रह्मरूपं धाम विवृतद्वारं प्रवेशार्ह मन्ये इत्यर्थः । तस्यैष आत्मा विशति ब्रह्मधामे 'ति श्रुतेः । ननु 'ब्रह्मज्ञ देवमी डयं विदित्वेति श्रुत्यैकाथ्र्याय ‘अध्यात्मयोगाधिगमेन मत्वेत्यत्रापि परमात्मात्मकजीव प्रतिपाद्यताम् । ततश्च तं दुर्दर्शमिति पूर्वखण्डोऽपि जीवपर एवास्तु। ततश्च श्रवणा यापि बहुभिर्यो न लभ्यः' इति पूर्वसन्दर्भपि परिशुद्धजीवस्वरूपपर एवास्तु, ततश्च आश्वर्यवत्पश्यति कश्चिदेनमाश्धयैवद्वदति तथैव चान्यः । आश्चर्यवचैनमन्यः शृणोति