पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

श्रुत्वाप्येनं वेद नचैव कश्चिदिति परिशुद्धात्मविषयगीतावचनैवाथ्र्यमपि उपपद्यत इति चेन्न । ब्रह्मजज्ञमिति मन्त्रे ब्रह्मजत्वरूपमक्रमश्रुतजीवलिङ्गबलेन चरमश्रुतदेवशब्दस्य देवात्मकत्वरूपार्थाश्रयणेपि 'तं दुर्दर्श'मिति मन्त्रे तादृशजीवलिङ्गाभावेन देवमित्यस्य देवात्मकमित्यर्थाश्रयणायोगात् । एतदेवाभिप्रेत्य भगवता भाष्यकृता 'गुहां प्रविष्टा वितिसूत्रे 'परमात्मनस्तावत् 'तं दुर्दशं गूढमनुप्रविष्ट / मिति गुहाप्रवेशो दृश्यत इत्युक्तम् । तथैवायं मन्त्रः परमात्मपरतया व्यासाथैरपि विवृतः । गह्वरेष्ठमिति पदेन तु परमात्मनः गइरशब्दितदुर्विज्ञेयपरिशुद्धात्मस्वरूपशरीरकत्वमप्युक्तम् । इयांस्तु विशेष:-ब्रझाजज्ञमितिभन्ले परमात्मारमकपरिशुद्धजीवम्वरूपं प्रतिपाद्यते । तं दुर्दर्शमिति मत्रे तु जीवशरीरकपरमात्मस्वरूपं प्रतिपाद्यत इति न तयोरैकार्थहानिः ।। १३ ।।

अन्यत्र धर्मादन्यत्राधर्मात् अन्यत्रामात्कृताकृतात् ।

अन्यत्र भूताच भव्याच यत्तत्पश्यसि तद्वद ॥ १४ ॥

नक्षधुवैः प्राप्यते हि ध्रुवं तत् 'एतच्छुवा संपिरगृह्य मर्यः प्रवृद्य धर्ममाणु मेतमाप्य । स मोदते मदनीयधर्हि लब्ध्वा ' ' अध्यात्मयोगाधिगमेन देवं मत्व धीरो हर्षशोको जहाति ' इति प्रदेशेषु धर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्य तया निर्दिष्टस्य प्राप्यस्य स्वरूपं च , उक्तप्रदेशेष्वेव धर्मविलक्षणतया मत्वेति प्रति पन्नस्योपायस्य स्वरूपं च 'धीरो हर्षशोकौ जहाती त्यत्र धीर इति प्रतिपन्नस्य प्राप्तुश्ध स्वरूपं शोधयितुं पृच्छति--अन्यत्र धर्मादित्यादिना—ननु भाष्ये 'देवंमत्वेत्युपास्य तधा निर्दिष्टस्य प्राप्यभूतस्य देवस्य 'अध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्दिष्टस्य प्राप्नुः प्रत्यगात्मनश्च 'मत्वा धीरे हर्षशोकैौ जहातीति निर्दिष्टस्य ब्रहोपासनस्य च स्वरूपशोधनाय पुनः पप्रच्छ अन्यत्र धर्मादितीत्युक्तः कथं तद्विरुद्धतया'धीर ' इति निर्दिष्टस्य प्राप्नुरित्युच्यत इति चेत्-मैवं वोच -- * अध्यात्मयोगाधिगमेने ' ति वेदितव्यतया निर्दिष्टमात्मशब्दवाच्यं प्रजापतिवेिद्याप्रतिपन्नमुपास्यं प्राप्यभूतं परिशुद्धस्वरूपमेव । अतस्तस्यापि प्राप्यनिदेशकत्वमेव । वस्तुगत्या तस्य प्राप्तुर भिन्नत्वात् प्राप्सुः प्रत्यगात्मनश्चेति भाष्यं न विरोत्स्यते । अतः 'प्रथमं तावत् प्रत्यात्मनः स्वरूपमाह--न जायते म्रियते वा विपश्चिदिति ’ इत्युतरभाष्यमयि न वेिरोत्स्यते । नहि *न जायते मेियते वा विपश्चिदिति क्षलप्रतियाङ्गस्य