पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

दन्यत्राधर्मादित्ययमप्यंशः प्राप्यब्रह्मपर एवाऽस्तु । ननु *नायमात्मा प्रवचनेन लभ्यो न मेधये । त्युपायविशेषप्रतिवचनदर्शनेनोपायविशेषप्रक्षस्याप्यत्रैवान्तर्भाव्यतया चशब्दाभावेप्यन्यत्रशब्दयुगद्वयस्य सामानाधिकरण्यं भञ्जनीयमितिचेन्न । प्रतिवचनेपि नायमात्मा प्रवचनेन लभ्य ' इति प्रीतिरूपपन्नज्ञानैकलभ्यत्वलक्षणप्राप्यधर्मविशेषेो पदेशस्यैव दर्शनेनोपायप्रधानप्रतिवचनादर्शनात् । 'नाशान्तमनसो वापि प्रज्ञानेनैन मायात् ' 'यस्त्वविज्ञानवान् भवति अमनस्कः सदाऽशुचिः । न स तत्पदमामोती ति प्रतिवचनदर्शनादन्यत्र धर्मादन्यत्रेति प्रसिद्धोपायविरोधिप्रक्ष इत्यपि किं न स्यात् । प्राप्यस्य प्रतिस्पापन्नज्ञानकोपायत्वकथनेन उपाये प्रीतिरूपापन्नत्वरूपविशेषः फलिप्य तीति चेत् , फलतु नाम । नैताचतोपायस्य प्रतिवचनप्रधानविषयत्वं क्क्तव्य मित्यस्ति । न हि 'किं देवदत्तभवन 'मिति प्रश्नस्य वा 'बहुचम्पकालकृतानप्कुट द्रारोपान्तलिविनशङ्खचक्रपद्माकं देवदत्तभवन'मिति तत्प्रक्षप्रतिवचनस्य वा निष्कुट द्वारोपान्तप्रधानकत्वं कश्चिदभ्युपैति । अतो अन्यत्रधर्मादन्यत्राधर्मादित्यपि अन्यत्र शब्दचतुष्टयसामानाधिकरण्यलेिप्सया धर्माधर्मसाध्यविलक्षणब्रह्मविषयावायमिति चेत्

अत्रोच्यते– 'असौ देवदत्तादुत्पन्नो न भवति, अपि तु यज्ञदत्ता । दिति वाक्यं श्रुत्वा देवदनादन्यं यं पश्यसि न मे ब्रूहीति प्रवृत्स्य नि()वचनस्य देव दत्तान्ययज्ञदत्तपरत्वन् लक्षणया देवदत्तपुत्रान्यप्रश्नपरत्वस्याप्रतीतेः । नद्रत कर्मसाध्यं न, अपि तु ज्ञानसाध्यमित्युपदेशानन्तरप्रवृत्तस्य धर्मादन्यत्रेति प्रश्म्य धर्मविलक्षणज्ञान रुपेोपायपरत्वमेव युक्तम् । ननु धर्मशब्दलक्षणया धर्मसाध्यविलक्षणब्रह्मपरत्वम् । तथा अधर्मादन्यत्रेत्यत्रापि सामानाधिकरण्येनोपायपरवमेव निश्चितम् । कालत्रयपरि च्छिन्नविलक्षणवाचके उपरितनान्यत्रशब्दद्वये कालत्रयापरिचछिन्नेो५यपरामश : संभवात् सामानाधिकरण्यभङ्गेन प्राप्यपरत्वमेव युक्तम् । नीलो दीधों रक्तो हृम्वः क इत्युक्त नीलदीर्घपदयोः अविरोधात् सामानाधिकरण्यं सिद्धयति । २क्तहम्वयोश्च परस्पराविरोधात सामानाधिकरण्यं सिद्धयति । नतु चतुर्णा चशब्दाभावेपि सामानाधि करण्यं दृष्टम् । अपि तु पुरुषद्वयप्रक्षपरत्वमेव । एवमिहापि यच्छब्दान्वितचशब्द द्वयाभावेपि न सामानाधिकरण्यम(गम्य)गाह्यते । अस्तु वा भवदुक्तरीत्या सामानाधि करण्यम् । अथापि प्रक्षप्रतिवचनयोर्द्धितीयव्याख्यायां उपेयप्रक्षे उपेत्रन्तर्भाववत्