पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
२९
कठोपनिषत्


वाक्षरं ब्रह्मासिसाधनत्वात् ब्रह्म । एतद्धयेवाक्षरं परम् | जप्येषु ध्येयेषु च श्रेष्ठमेित्यर्थः । एतद्भयेवाक्षरमिति । एतदक्षरमुपासमान:(उपास्य) अनेनोपासनेन इदं फलं मे भूयादिति यत् कामयते तस्य तद्भवतीत्यर्थः ॥ १६ ॥

एतदालम्बनं श्रेष्ठं एतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

एतदालम्बनं श्रेष्ठम्-एतदोंकाररूपमालम्बनं । श्रेष्ठ-ध्यानादेरिति शेषः । अत एव । एतदालम्बनं परम्-एतदालम्बनकं ध्यानादि सर्वोत्कृष्टमित्यर्थः । उत्तरार्धस्य स्पष्टोर्थः ॥ १७ ॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।

अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥१८॥

प्रथमं तावत्प्रत्यगामम्वरूपमाह– न जायते म्रियते वेत्यादिना मन्त्रद्वयेन । इदं च प्रस्तुत्य व्यासयैरित्थं ह्यक्तम्---'इदं मन्त्रद्वयं तावदेकविषयम् , ' न हन्यते हन्यमाने शरीरे' इत्येतद्विवरणरूपत्वात् द्वितीयमन्त्रस्य । हन्ता चेदितेि मन्त्रश्च जीवविषय एव । लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतिपत्त्यभावात् । परमात्मा हि प्रत्यक्षागोचरः । कथं तस्मिन्वध्यतादिप्रतिपत्तिः । अहमेनं हन्मि अयं मां हन्तु मागच्छतीतेि वध्यघातुकभावाभिमानो हि देहिनां जीवविषय एव । ननु 'नास्य जयैतज्जीती । तिवत् परमात्मनोपि हननप्रतिषेध उपपद्यते । सत्यम् तत्र दहराकाशस्य देहान्तःस्थित्या शंकितविकारनिषेध उपपद्यते । इह तु लोकसिद्धा भ्रान्तिरनूद्य निरस्यते । न हि परमात्मनि। बध्यघातुकभावभ्रान्तिः कस्याप्यस्ति । अतः अनुवादनिषेधावनुपपन्नौ । 'न जायत ' इति मन्त्रश्च तेनैकार्थः । अत मन्त्रद्वयमपि जीवविषयकमेवेतेि । अक्षरार्थस्तु-न जायते म्रियते वा विपश्चित् विपश्चित्वाहोंऽयमिदानीमपि जननमरणशन्य इत्यर्थः । नायं कुतश्चित् उपादकशून्यः । न बभूव कश्चित्-पूर्वमपि मनुष्यादिरूपेण जननशून्यः । न जायत इत्यत्र हेतुमाह--अज इतेि । न म्रियत इत्यत्र हेतुमाह--नित्य इति । न कुतश्चिदित्यत्र हेतुमाह-शाश्वत इति । पूर्वं न बभूवेत्यत्र हेतुमाह-पुराण इति ।