पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
३१
कठोपनिषत्

इतरविलक्षणनित्यत्वोक्तिरिति द्रष्टव्यम् । वर्णितश्च सूत्रार्थः । ननु 'न जायतेन्नेिथते वा' इति श्रुनिप्रतिषिद्धां जीवोत्पतिं 'वासुदेवात्सङ्कर्षणे: नाम जीवो जायते इति प्रतिपादयतः पाञ्चरालस्य कथं प्रामाण्य' मेिति चेत्-अस्याः शङ्कायास्तर्कपादे निराकृतत्वात् । तथाहि-वासुदेवात्संकर्षणो नाम जीवो जायत इति जीवोत्पतिः प्रतिपाद्यते । सा च जीवे न संभवति । तथा 'सङ्कर्षणा त्प्रद्यन्नसंज्ञ मनो जायते' इति कर्तुजीवात्करणस्य मनसः उत्पत्तिः श्रूयमाणापि न संभवति । कर्तुजीवात्करणोत्पतेः 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चेति मनसं ब्रह्मोत्पतिप्रतिपादकश्रुतिविरुद्धत्वादिति ‘उत्पत्यसंभवात्' 'न च कर्तु करण'मिति सूत्रद्वयेन पूर्वपक्षं कृत्वा 'विज्ञानादिभावे वा तदप्रतिषेध विप्रतिषेधाचेति सूत्राभ्यां सिद्धान्तितम् । वाशब्दः पूर्वपक्षव्यावृत्यर्थः । वज्ञान च तदादि च विज्ञानादि । ननु च 'क्यन्तो घुरिति आदिशब्दश्य नित्यपुलिङ्गत्वात्कथमेतदिति चेत्-नायं धुः । अपि तु 'अद भक्षणे' इत्यस्मा दावश्यकाथे णिनिप्रत्यये ' आदि' इति रूपं सिद्धयति । तेन च निखिलजगत्सं हतृत्वमुखेन कारणत्वं प्रतिपाद्यत इति द्रष्टव्यम् । आदि विज्ञानं परमात्मेत्यर्थः। 'सङ्कर्षणो नाम जीवो जायते' इति श्रुतस्य जीवशब्दार्थस्य तदभिमानिपरमात्मभावे सति शास्त्रप्रामाण्याप्रतिषेधस्सिद्भयति । परमात्मनश्च जननं नाम स्वेच्छाधीनशरीर परिग्रह: । नस्मिन्नेव पाञ्चरात्रे 'स ह्यनादिरनन्तश्धेति जीवोत्पतेर्विशेषेण प्रति षिद्धतया तद्विरुद्धाभिधानासंभवात् 'सङ्कर्षणो नाम जीवो जायत' इत्यनेन जीवा भिमानिसङ्कर्षणस्य इच्छाधीनशरीरपरिग्रहरुरूपोत्पत्तिः प्रतिपाद्यत इति न पाश्चरात्रा प्रामाण्यमिति सूत्रयोरर्थः । ननु सांत्यपाशुपताद्यधिकरणवदिदमप्यधिकरणं पाञ्चरात्रप्रामाण्यप्रतिषेधकं किं न स्यादिति चेत् - वेदोपहणाय भारतसंहितां कुर्वता बादरायणेन

इदं शतसहस्राद्धि भारताख्यानबिस्तरात् ।

अमथ्य मतिमन्थानं दध्नो घृतमिवोद्धतम् ।।

`

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ।

आरण्यकं च वेदेभ्यः ओषधीभ्यो यथाऽमृतम् ॥