पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
३३
कठोपनिषत्

आपातप्रतिपन्नमेवार्थे तात्विकं मन्यमाना ये प्रत्यवतिष्ठन्ते, तान्प्रति सांख्याद्यागमानां आपातप्रतिपन्नार्थमात्रपरत्वमन्वारुह्य सूत्रकृता तन्निरसनं कृतम् । पाञ्चरात्रशास्त्रं तु परतत्त्वहितपुरुषार्थानामेबापाततोपि प्रतीतेः वेदविरुद्धनिमित्तोपादानभेदाद्यप्रतीतेश्च कृत्स्नं प्रमाणमेवेति नैकदेशेप्यप्रामाण्यशङ्गावकाश इति द्रष्टव्यम् । एवमेव व्यासायै रुक्तम् । प्रकृतमनुसरामः ॥ १९ ॥

अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहा

याम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमा

नमात्मनः ॥ २० ॥

एवं मन्त्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्मभूतपरमात्मस्वरूपमाह--अणोरणीया नित्यादिना । अणोः–सचेतनापेक्षया सूक्ष्माचेतनात् अणुतरः ततोपि सूक्ष्मः तदन्तः प्रवेशयोग्य इत्यर्थः । महतः - आकाशादेरपि महत्तरः स्वाव्याप्तवस्तुरहित इत्यर्थः । अस्य जन्तोः–“न जायते म्रियते वेति मन्त्रद्वयनिर्दिष्टस्य। आत्मा--- अन्तःप्रविश्य नियन्तेत्यर्थः । अतश्च पूर्वमन्त्रद्वयनिर्दिष्टात् प्रत्यगात्मस्वरूपात् अणो रणीयानितेि मन्त्रसन्दर्भप्रतिपाद्योऽन्य एवेति सिद्धम् । न च अस्य जन्तोरित्यस्य हृदयगुहावाचिना संबन्धसापेक्षेण गुहायामित्यनेनैवन्वितत्वेन नात्मेत्यनेनान्वय इति शङ्कयम् । आत्मशब्दान्वितस्यैव काकाक्षिन्यायेनोभयत्रान्वये दोषाभावात् । 'मूलत शाखां परिवास्योपवेषं करोति' इत्यत्र शाखां मूलतः परिवास्य मूलत उपवेषं करोतीति परिवासनान्वितस्यापि मूलत इत्यस्य उपवेषं करोतीत्यनेनापि अन्वयस्थाङ्गीकृतत्वात्। जीवहृदयगुहावर्तित्वप्रतिपादनेऽपि जीवभेदसिद्धेश्च । नहि जीवस्यैव जीवगुहावर्तित्व प्रतिपादने प्रयोजनमस्ति। ननु 'न जायत'इत्युपन्यस्तस्यात्मनः जायमानवाविजन्तुशब्देन परामर्शस्यानुपपन्नतया अस्य जन्तोरित्यस्य प्रत्यक्षादिसन्निधापितदेहपरताया एव क्क्त व्यत्वेन तद्गुहाहित आत्मा प्रागुपन्यस्तो जीव एवास्तु । न च कर्तृत्वभोकृत्वादि विशिष्टतया सदा अहमिति भासमाने जीवे 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति 'क इत्था वेद यत्र सः इति उत्तरसन्दर्भप्रतिपाद्यदुर्विज्ञानत्वं कथमन्वेत्विति वाच्यम् । जीवस्य कर्तृत्वादिविशिष्टतया सर्वलोकविदितत्वेपि मुक्तप्राप्यब्रह्मस्वरूपविशिष्टतया दुसनत्क्संभवदिति चेन्न । ‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिण' इति जन्तु