पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

शब्दस्य चेतनपर्यायतया प्रकृतजीक्वाचित्क्संभवात् । अस्येति शब्दस्य च पूर्वसन्दर्भ पस्थापितप्रत्यगात्मविषयत्वसंभवे प्रत्यक्षाद्युपस्थापितदेहविषयत्वाश्रयणस्यायुक्तत्वात् । अत्यन्ताणुत्वमहत्वयो: 'एष म आत्मान्तर्हदये अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्या माकाद्वा श्यामाकतण्डुलाद्वा एष म आत्मान्तर्हदये ज्यायान् पृथव्या ज्यायानन्त रिक्षात् ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः 'इत्यादिषु परमात्मधर्मतया अणोरणीया निति मन्त्रप्रतिपाद्यस्य जीवत्वशङ्काया असंभवात् । नु 'नेतरोऽनुपपते ! िरति सूत्रे सह ब्रह्मणा विपश्धिते ' नि वाक्यश्रतविपश्चित्वस्य ब्रह्मासाधारणलिङ्गत्वस्य भाप्ये प्रतिपादितत्वान् “न जायते क्रियते वा विपश्चि'दिति मन्त्रस्यापि पररीत्या परमात्म परत्वमेवास्तु। एवं सनि । अन्यत्र धर्मा दिति प्रश्नस्य प्राप्यद्वयपरवं प्रतिवचनस्य प्राप्य द्वयपरत्वमाश्रित्य ' न जायन ' इत्यादिमन्त्रद्वयस्य प्राप्यजीक्स्वरूपपरत्वं, अणोरणीया निति सन्दर्भस्य च परमात्मपरत्वमित्यादिपरिकल्पनकेशो नाश्रयणीय इति वेत्-न । हननादिप्रतिषेधाद्यनुपपत्या विपश्चिच्छब्दे मुळ्यार्थत्यागस्यावश्यकत्वेन तन्मन्त्रद्वय स्थाणोरणीयानित्यादिमन्त्रसन्दर्भम्य च कविषयत्वासंभवात्। शिष्टमुत्तरत्र स्पष्टयिष्यते। तमक्रतुं पश्यतीति । नै - तादृशं परमात्मानं अक्रतुः – काम्यकर्मादिरहितस्सन् धातोः धारकस्य परमात्मनः प्रसादात् आत्मनः महिमानं. महत्वसंपादकं स्वसार्वत्या दिगुणाविर्भावहेतुभूतं परमात्मानं यदा पश्यति तदावीतशोको भवतीत्यर्थः । द्युभ्वाद्यधि करणे 'जुष्टं यदा पश्यत्यन्यमीशं ' इति मन्त्रखण्डं प्रस्तुत्य ' अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणमम्येश्वरस्य महिमानं च निविलजगन्नियमनरुपं पश्यति तदा वीतशोको भक्ती'नि भगवता भाप्यकृता व्याख्यातत्वात् तदनुसारेणापि परमात्मन निक्लिजगन्नियमनरुपं महिमानं च यः पश्यति स वीतशोको भवतीत्यर्थः । धातुप्रसा दाद्वीतशोको भवतीति वान्क्यः । 'प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने शसंक्षय' इतेि मृतेरिति द्रष्टव्यम् । । अक्रतुं पश्यनि धातुःप्रसादान्महिमानमीशम्' इति पाटे-- अक्रतुं-कर्मकृतोत्कर्षापकर्षशून्यमित्यर्थः । धातुः-भगवतः ॥ २० ।।

आमीनो दूरं व्रजति शयानो याति मर्वतः । कस्तं मदामदं

देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

धातुप्रसादशब्दितभगवदनुग्रहशन्यस्य परमात्मतत्त्वमत्यन्तालैौकिकत्वाद्दुरधिगम मिति दर्शयति-आसीनो दूरं व्रजति शयानो वाति सर्वत इति-सन्