पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

यस्य ब्रह्मा च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योप

सेचनं क इत्था वेद यत्र सः ।। २५ ।।

।। इति द्वितीया वली ।।

यस्य ब्रह्मचेति । ब्रह्म च क्षत्रं च-ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्रचराचरात्मक मिदं जगत् । यस्य ओदनो भवति---यस्य विनाश्यो भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्यादनहेतुर्भवति, सः निखिलचराचरसंहर्ता परमात्मा यत्र यस्मिन् प्रकारे स्थितः यत्प्रकारविशिष्टः तं प्रकारमित्थमिति को वेदेत्यर्थ । ननु ब्रह्मक्षत्रपदेन कृत्स्रचराचरग्रहणे किं बीजमिति चेदुच्यते । ब्रह्म च क्षत्रं च ओदन इत्युक्त ब्रह्मणक्षत्रियवर्णयोः किंचित्प्रति ओदनशव्दमुख्यार्थत्वासंभवात् ओदन शब्देन भोग्यत्वं वा विनाश्यत्वं वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्र संहर्ता वा कश्धिजीवो वा परमात्मा वाऽस्ति । नन्वन्तरादित्यविद्यायां 'ये चामुप्मात्परा ो लोकास्तेषावेष्ट' इति सर्वलोकेश्वरे परमात्मनि उपासनार्थं लोकविशेषेशितृत्व श्रवणवत् सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनार्थमुपदिश्यतामितिचेन्न । तद्वदस्योपासनाप्रकरणत्वासंभवात् । अत: ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वं युक्तम् । उक्तं च सूत्रकृता । अत्ता चराचरग्रहणात' इति । न्त्रवमपि ओदनशब्देन किमिति विनाश्यत्वं लक्ष्यते । गौणत्वमपि शब्दस्य साधारणगुणमपहाय असाधारण गुणेनैव निर्वाह्मम् । नह्ममिर्माणवक इत्यत्र अप्तिशब्देन पङ्गल्यादरिव द्रव्यत्वादे रुपस्थितिरस्ति । अत एव 'मैतु होतुश्धमसः प्र ब्रह्मणः प्रोद्भातृणां प्र यजमानस्ये त्यध्वर्युप्रैषे उद्भातृशब्दस्य बहुवचनानुरोधेन बहुषु वृत्तौ वक्तव्यायां षोडशबिक्साधा स्णाकारं विहाय उद्रातृगणमात्रलक्षणा पूर्वतन्त्रे वर्णिता। तद्वदिहापि ब्रह्मक्षत्रयारोदन शब्दमुख्यार्थत्वासंभवेपि भोज्यत्वभेोम्यत्क्रूपान्तरङ्गाकारस्यव लक्षणयाऽपि ग्रहण युक्तम् । नत्वत्यन्तबहिरङ्गस्य विनाश्यत्वाकारस्य, येन निखिलचराचरसंहतां परमात्माऽत्र वाक्ये प्रतीयेतेति चेत् उच्यते । यद्यपि विनाश्यत्वं साधारणाकारः, तथापि मृत्यु स्योपसेचनमिलि वाक्यशेषानुरोधात् साधारणोऽपि गौण्या वृत्या लक्षयितुमुचितः । ननु उपसेचनशब्दापेक्षथा ओदनशब्दस्य मुख्यत्वात् ओदनशब्दस्वारस्यानुरोधेन असा