ताम् । अतः ब्रह्मक्षत्रभोक्ता यः यस्य च मृत्युरबाधकः सोऽस्मिन्मन्त्रे प्रतिपाद्य
भोक्तत्वं च जीवस्यैवेति स एवास्मिन्मन्त्र प्रतिपाद्यतामिति चेत्-उच्यते । उपसेच
नत्वेन रूपितस्य मृत्योः ओदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत् प्रतीतसम्ब
न्धस्य सर्वात्मना बाधप्रसङ्गात् । नहि यस्य ब्रह्म क्षत्रं च भौम्यं यस्य च मृत्युरबाधक
इत्युक्त मृत्योः ब्रह्मक्षत्रम्य च सम्बन्धः प्रतीयते । अत: उपसेचनशब्दस्य ओदन
शब्दापेक्षया जघन्यत्वेपि अबाधकत्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सति
अन्यादनहेतुत्वरुपासाधारणरुप एव ग्राह्यः । नतश्च एकवाक्यान्तर्गतचरमश्रुतोपसे
चनपदानुसारण ओदनशब्देनापि िवनश्यत्वमेव लक्षणीयम् । स्वबुद्धयुपस्थापनीय
विशेषाकाररूपगुणग्रहणादपि एकवाक्यतापन्नपदान्तरोपस्थापिंतगुणग्रहणस्यैव बुद्धि
लाघवेन एकवाक्यतासामथ्र्यानुरोधेन च न्यायवादित्यस्यार्थस्य अतूधिकरणे निर्णी
तत्वादित्यलं पल्लवितेन ।। २५ ।।
॥ अथ तृतीया वली ।।
हरिः ओं॥
ऋतं पिबन्तौ सुकृतस्य लोकं गुहां प्रविष्टौ परमे
पराध्यै । छायातौ ब्रह्मविदो वदन्ति पञ्चाग्रयो ये
च त्रिणाचिकेताः ।। १ ।।
- क इत्था वेद यत्र सः' इति अस्य दुज्ञानत्वं. अत्र इत्थमास्ते इत्यस्यार्थस्य
दुर्वोधन्वेन न वयं तदुपासने शक्ता: इति मन्यमानं प्रति उपास्योपासकयोरेकगुहानु प्रवेशेन परमात्मनस्सृपास्यत्वाद्वयमपि उपासितुं शक्ता इति द्वाभ्यां मन्त्राभ्यां दर्शयति- ऋतं पिबन्तावित्यादिना । सत्यपदवाच्यावश्यंभाविकर्मफलमनुभवन्तौ सुकृतसाध्ये लोके अस्मिन्नेव लोके वर्तमानौ हृदयकुहरं प्रविष्टौ तत्रापि परमाकाशे पराध्यें – परार्ध सङ्कयाया उत्तरावधिः तदर्हतीति पराध्यम्, उत्कृष्ट इत्यर्थ । तादृशे हार्दाकाशे वर्तमानौ । छायातपशब्दाभ्यां ज्ञाशैौ