पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
३९
कठोपनिषत्

इशङ्कायाः 'गुहां प्रविष्टावात्माना 'विति सूत्रकृतैव निराकृतत्वात् । किञ्च जीवे गुहाप्रवेशस्य बुद्धयुपधिकतया स्वत:प्रवेशवत्या बुद्धया सह जीवस्य 'गुहां प्रविष्टा विति गुहाप्रवेशवर्णनं न सङ्गच्छते । उपटंभकाधीनगुरुत्वशालिनि सुवर्णे गुरु सुवर्णमिति व्यवहारसम्भवेऽप्युष्टुम्भकसुवर्णे गुरुणी इति व्यवहारादर्शनात् । अत एव परपक्षे सूत्रानुसारेण अस्य मन्त्रस्य जावपरमात्मपरतया कृत योजनान्तरमप्यनुपपन्नम् । 'अनेन जोवेनात्मनानुप्रविश्ये 'ति श्रुत्यनुसारेण परमात्मनो जीवभावेनानुप्रवेशेपि परमात्मरुपेणानुप्रवेशाभावात् जीवपरमात्मानौ गुहां प्रविष्टाविति निर्देशानुपपते । जीवभावेन ब्रह्मणस्संसारमभिप्रेत्य ब्रह्म संसरतीति व्यवहारसत्त्वेपि जीवब्रह्मणी संसरत इति व्यवहारासंभवात् । 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति, कार्योपाधिरर्य जीवः कारणोपाधिरीश्वरः' इति वचनानुसारेण प्रति(परि)गृहीते विद्याया वा अन्तःकरणस्य वा जीवोपाधित्व मिति पक्षद्वयेपि नाविद्यान्तःकरणयोः प्रतिबिम्बोपाधित्वं युज्यते । स्वच्छद्रव्यप्रतिहति परावृत्तनायनरश्मिगृह्ममाणस्यैव प्रतिबिम्बशब्दार्थतया अचाक्षुषस्य चैतन्यस्य प्रति बिम्बत्वासंभवेन अविद्याप्रतिबिम्बोऽन्तःकरणप्रतिबिम्बो वा जीव इत्याश्रयणायोगात् । अतोऽविद्यावच्छिन्नः अन्तःकरणावच्छिन्नेो वा जीव इति पक्षद्वयमेव परिशिप्यते । तत्र च हृदयगुहायां अविद्यान्त:करणाभ्यामवच्छिन्नत्वेन अनवच्छिन्नपरमात्मनो गुहाप्रवेशवर्णनश्रतेर्वाऽन्तर्यामिब्राह्मणस्य वा नाञ्जस्यमित्यलमतिचर्चया । प्रकृत मनुसरामः | ? !!

यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां

पारं नाचिकेत५ शकेमहि ।। २ ।।

यस्सेतुरिति । यः सेतुः-- आधारभूतः कर्मफलप्रद इत्यर्थः । ईजानानामिति कानजन्तः शब्दः । अक्षरं ब्रह्म यत्परं---यन्निर्विकारं परं ब्रह्म । अभर्य । तितीर्षतां पारं-संसारसागरं तितीर्षतां निर्भयं दृढं तीरं । नाचिकेतं शकेमहेि नाचिकेतामिप्राप्यमुपासितुं शक्ताः स्म इत्यर्थः । शकेव्यत्ययेन शप् । नाचिकेतं शकेमहीत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्यातत्वात् । अतः दुरुपास्यत्वबुद्धया न भेतव्यमिति भाव ।। २ ।।