पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

आत्मान५ रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं

विद्धि मनः प्रग्रहमेव च ।। ३ ।।

आत्मानं रथिनं विद्वी ' त्यादिना 'सोध्वनः पारमामोती'त्यन्तेन संसाराध्वपार भूतवैष्णवपरमपदप्राप्तौ परिकरम्पदिशन् प्राप्तस्वरूपमुपदिशतेि-आत्मानं रथिनं विीतेि । शरीराधिष्ठातारं रथिनं विद्धि । शरीरमेव च रथं विद्धीत्यर्थः । बुद्धि शब्दिताध्यवसायाधीनत्वाद्देहप्रवृत्तः तस्याम्सारथित्वमिति भाव । । प्रग्रहः-रशना ।

इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान् । आत्मेन्द्रिय

मनोयुक्त भोक्तेत्याहुर्मनीषिणः ।। ४ ।।

इन्द्रियाणि हयानाहुः-- स्पष्टोर्थः । विपयांस्तषु गोचरान् – तेषु इन्द्रियेषु हयत्वेन रुपितेषु गोचरान् मार्गान शब्दादिविषयान् विद्धीत्यर्थः । रथसारथिहय प्रग्रहत्वेन रूपितानां शरीरेन्द्रियमनोबुद्धीनामभावे रथित्वेन रुतिस्योदासीनस्यात्मनो गमनरुपलैकिकवैदिकक्रियाकर्तृत्वमेव नानीत्यन् सुप्रसिद्धत्वेन दर्शयति आत्मेन्द्रियेति । आत्मशब्दो देहपरः । मनश्शब्दस्तत्कार्यबुद्धेरप्यु लक्षकः । पूर्व मन्त्रे बुद्धेरपि सारथिन्वेन निर्दिष्टवान् । भोक्ता कर्तृत्वभेतृत्वयानित्यर्थः । नहिं केवलयात्मनः कर्तृत्वं भोक्तत्वं वाऽम्-ति भाव ।। 2 ।।

यस्त्वविज्ञानवान्भवत्ययुनेन मनसा मदा । तम्येन्द्रि

याण्यवश्यनि दुष्टाश्वा इव माथेः ।। ५ ।।

यस्तु विज्ञानवान् भवति युक्तन मनमा मदा । तस्येन्द्रि

याणि वश्यानि मदश्वा इव सारथे ।। ६ ।।

शरीरादेः रथत्वादिभ्पणम्य प्रयोजनमाह--यस्त्वविज्ञानवानित्यादिना मन्त्र द्वयेन । लोके हि समीचा:सारथिग्रहवतः अश्वा वशीकृता भव:ि । [वं सारथि प्रग्रहृत्वेन रुपितयोर्विज्ञानमनमेम्सामीचान्ये अश्वेन पितानि इन्द्रियाणि वश्यानि भवन्ति । नान्यथेत्यर्थः ।। ५+६ ।।

यस्त्वविज्ञानवान्भवत्यमनस्कस्सदाऽशुचिः । न स तन्पंद

मामोतेि स५सा चाधिगच्छति ।। ७ ।।