पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
४१
कठोपनिषत्

यस्तु विज्ञानवान्भवति समनस्कस्सदा शुचिः। स तु तत्पद

माझोति यस्माद्भयो न जायते ।। ८ ।।

हयत्वेन स्वपितानामिन्द्रियाणां वशीकरणतदभावयोः प्रयोजनं दर्शयति मन्त्रद्वयेन यस्त्वविज्ञानवानित्यादिना । अमनस्कः---अनिगृहीतमनाः । अत एवाशुचिः सर्वदा विपरीतचिन्ताप्रवणत्वादित्यर्थः । न केवलं जिगमिषेितप्राप्तयभावमात्रं, प्रत्युत गहनं संसारकान्तारमेव प्राप्यतीत्यर्थः ।। ७+८ ।।

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोध्घनः पारमाझेोति

तद्विष्णोः परमं पदम् ।। ९ ।।

किं तत्पदमित्याकांक्षायां तत्पदं दर्शयन्नुपसंहरति- विज्ञानसारथिरेिति । समीचीनविज्ञानमनश्शाली संसाराध्वपारभूतं परमात्मस्वरूपं प्राझेोतीत्यर्थः ।। ९ ।।

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा

बुद्धिबुद्धरात्मा महान्परः ।। १० ।।

महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषाय परं किि

त्सा काष्ठा सा परा गतिः ।। ११ ।।

वशीकार्यत्वाय रथादिरुपितेषु शरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते-इन्द्रियेभ्यः परा इत्यादिमन्त्रद्वयेन । अस्य मन्त्रद्वयस्यार्थो भगवता भाप्यकृता आनुमानिकाधिकरणे उक्तः । इत्थं हि तत्र भाष्यम्--' तेषु रथादिरूपित शरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते' इन्द्रियेभ्यः परा इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषया वशीकार्यत्वे पराः । वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात्। तेभ्योि परं प्रहरूपितं मनः । मनसेि विक्यमवणे विषयासन्निधानस्याप्यकिंचित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा । अध्यक्सायाभावे मनसोप्यकिंचित्करत्वात्। तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः । सर्वस्यात्मेच्छायत्तत्वात् आत्मैव महानिति विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् । तदायतत्वा जीवस्य सकलपुरुषार्थप्रवृत्तीनाम् । तस्मादपि पर सर्वान्तरात्मभूतोऽन्तर्यानी