पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

अध्वनः पारभूतः परमपुरुषः । यथोक्तस्यात्मपर्यन्तम्य तत्संकल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामिन्या उपासनस्यापि निर्वर्तकः । 'परातु तच्छूते' रिति हि जीवात्मन कर्तृत्वं परमपुरुषायतमिति वक्ष्यते। वशीकार्योपासननिर्तृत्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते 'पुरुषान्न परं किंचित्सा काष्ठा सा परा गति' रिति । तथा अन्तर्यामिब्राह्मणे ' य आत्मानि तिष्ठन्नित्यादिभिः सव साक्षात्कुवन् सर्वे नियम यतीत्युक्त्वा 'नान्योऽतोस्ति द्रष्ट' नि नियन्त्रन्तरं निषिध्यते । भगवद्भीतासु च अधिष्ठानं नथा कर्ता करणं च पृथग्विधम् । विविधा च पृथकचेष्टा दैवं चैवात्र पञ्चम'मिनि । दैवमत्र पुरुषोत्तम एव । 'सर्वम्य चाहं हृदि सन्निविष्टो मत्त:मृति ज्ञानिमपोहनं चे' ति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाह ईश्वरम्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमव शरणं गच्छे' ति । तदेवं ' आत्मानं रथिनं विद्धी' त्यादिना रथ्यादिरूपकविन्यम्मा इन्द्रियादयः इन्द्रयेभ्यः परा ह्यर्था इत्यत्र स्वशब्दैरेव प्रत्यिभः ज्ञायन्ते, न रथरूपितं शरीरमिनि परिशेषात्तदन्यक्तशब्देनोच्यते इति ॥ १०+११ ।।

एप्प मर्वेषु भूतेषु गूढोऽन्मा न प्रकाशने । दृश्यते त्वरया

बुद्धया पृक्ष्मया सृक्ष्मदर्शिभिः ।। १२ ।।

एष सर्वेषु भूतेष्विति । सर्वेषु भूतेषु आत्मतया वर्तमानोसौ गुणत्रयमाया तिरोहितत्वेन अजिनबाह्यान्त:करणानां न यथावत्प्रकाशते युक्तया वाह्याभ्यन्तरव्यापाग्रहितया सूक्ष्मया-सृक्ष्मार्थविवेनशक्तया सूक्ष्मदर्शन शालट्टश्यत इत्यथ: ।! १२ ।। -

यच्छेद्वाड़मनसी प्राज्ञस्तद्यच्छेद ज्ञान अन्मिनि । ज्ञान

मान्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ।। १३ ।।

बाह्याभ्यन्तरकरणव्यापारगहित्यप्रका ' अध्यात्मयोगाधिगमे । नेति निर्दिष्टजीव स्वरुपज्ञानप्रकाग्ञ्च दर्शयनि—यच्छेद्वाड़मनसीत्यादिना। इम मन्त्रं प्रस्तुत्येत्थं हि() भाष्यकृता 'हयादिरुपितानामिन्द्रियादीमां वशीकरणप्रकारीयमुच्यते । यच्छेद्वाङ् र्मनसी-वाचं मनसि नियच्छेत । वाक्पूर्वकाणि कर्मन्द्रियाणि ज्ञानेद्रियाणि च मनसि नियच्छेदित्यर्थः । वाकछब्दे 'सुपं सुलुगि' त्यादिना । द्विनीयायाः लुकू