पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
४३
कठोपनिषत्

मनसी इति सप्तभ्याश्छान्दसो दीर्घः । तद्यच्छेत् ज्ञान आत्मनि-तत् मन नेियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते । ज्ञान आत्मनीतेि व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः । ज्ञानमात्मनि महति नियच्छेत्-बुद्धिं कर्तरि महति आत्मनि नियच्छेत् । तद्यच्छेच्छान्त आत्मनि तं कर्तारं परस्मिन् ब्रह्मणि सर्वान्तयामिणि नियच्छेत् । व्यत्ययेन तदिति नपुंसक लिङ्गता । एवंभूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थ ' इति भाषितम् । विवृतञ्च श्रुतप्रकाशिकायाम्--'वाचेो मनसि नियमनं मनोननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसः बुद्धौ नियमनं व्यवसायानुगुणप्रवृत्तिापादनम् । बुद्धिश्चार्थेषु हेयत्वाध्यव सायरूपा । तम्य: बुद्धेरात्मनि नियमनं नाम स एवापादेयतया साक्षात्कार्य इत्ये तदर्थविषयत्वापादनम्। शान्ते स्वत ऊर्मिषट्कप्रतिभटे। शान्त आत्मनि महृत आत्मनो जीवस्य नियमनं नाम तच्छेषताप्रतिपति 'रिति । ' आत्मशब्दस्य पुलिङ्गत्वात् पुलिङ्गतच्छब्देन दिर्देष्टये छान्दसत्वाङ्गिव्यत्यय: इतेि। ननु भाष्ये ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ. आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः । इत्युक्तिरयुक्ताः अव्यावर्तकत्वादात्मनीति विशेषणस्य । आत्मन्यवर्तमानज्ञानस्यैवाभावात् । न च तद्यच्छेत् ज्ञान इत्येतावत्युक्त आत्मस्वरूपज्ञानभ्रान्तिस्स्यात् । अत: ज्ञान आत्मनी त्युक्तमिति वक्तुं शक्यम् । तथा सति तस्या एव भ्रान्तेः सामानाधिकरण्ययोजनया दृढीकरणप्रसङ्गात् । नह्यात्मनीत्यनेन आत्मभ्रान्तिव्र्युदस्यते । न च आत्मनि वर्तमान इति भाप्यस्य आत्मनि विषयविपयिभावलक्षणसम्बन्धेन वर्तमान इत्यर्थः । आत्म विषयज्ञान इति यावत् । अतो व्यावर्तकतया न वैयर्थदोष इति वाच्यम् । तथासतिं ज्ञानमात्मनि महति नियच्छदित्यस्य वैयथ्यपातात् । तदर्थस्य अनेनैव सिद्धे रिति चेत्—उच्यते । अयमभिप्रायेो भाष्यकारस्य-तद्यच्छेत् ज्ञान आत्मनीत्यत्र आत्मनीति विषयसप्तमी । तचात्मांवषयकज्ञानं, ' आत्मा उपादेयः तदतिरिक्ता अर्था हेया' इत्येवंरूपम् । तचार्थेषु हेयताध्यवसायरूपा बुद्धिरिति श्रुतप्रकाशिकायां व्यक्तम् । अस्य चात्मानात्मविषयकाहेयहेयताध्यवसायरूपस्य ज्ञानस्य महत्यात्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनमिति तत्रैव श्रुतमकाशिकायामुक्तत्वात् वाकयद्वयस्यापि समयोजनतया त्वदुक्तवैयथ्र्यशङ्कानवकाश इति ॥ १३ ॥