पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता


उत्तिष्ठत जाग्रत प्राप्य वराणियोधत । क्षुरस्य धारा निशिता

दुरत्यया दुर्ग पथस्तत्कवयो वदन्ति ।। १४ ।।

एवं वशीकरणप्रकारमुपदिश्य अधिकारिपुरुषानभिमुखीकरोति – उत्तिष्ठत जाग्रतेति । आत्मज्ञानाभिमुस्खा भवत । अज्ञाननिद्रायाः क्षमं कुरुत । वरान् श्रेष्ठान् आचार्यानुपसंगम्यात्मतत्त्वं निबोधत । यद्वा उपासिताद्भगवतो वा ब्रह्मविद्वयो वा “ देवतापारमाथ्र्य च यथावद्वेत्स्यते भवानि 'त्येवंरूपान् वरान् प्राप्य ज्ञेयमात्मतत्वं निबोधत । नोदासितव्यमिति भावः । क्षुरस्येति । ज्ञानिनः तत् आत्मतत्वं दुर्गमं पंथानं वर्णयन्ति । तत् कस्य हेतोः, यत आमतत्व, क्षुरस्य —आयुधविशे क्स्य धारा-अग्रम्, निशिता—तीक्ष्णा, दुरत्यया-अनतिक्रमणीया। तीक्ष्ण क्षुराग्रे सञ्चरतः पुंसो यथा कियत्यप्यनवधाने आत्मनाशो भवतेि, एवमिहात्मस्वरूपा वगतेिदशायां स्वल्पेप्यनवधानापराधे आत्मनाशो भवतीति भावः ॥ १४ ॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नेित्यमगन्धवष यत् ।

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्र

मुच्यते ।। १५ ।।

उपसंहरति---अशब्दमस्पर्शमिति । अत्र नित्यमित्येतत् अशब्दमित्यादौ प्रत्येकमभिसंबध्यते । अशब्दत्वादिवशादेव कालवदन्ययम् । अबयवापचयशशून्य मित्यर्थ । महन इत्यनेन 'आत्मनि महनि नियच्छे दिति पूर्वमन्त्रनिर्दिष्टो जीवो गृह्यते । धुवं-स्थिरम् ! नेिचाथ्य-दृष्ट। दर्शनसमानाकारोपासनेन विषयीकृत्ये त्यर्थः । मृत्युमुखादिति | भीषणात्संसारादित्यर्थः ।। १५ ।।

नचिकेतमुपाख्यानं मृत्युप्रोक्तस्सनातनम् । उक्त्वा श्रुत्वा

च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥

उपसंहरति-नाचिकेतमितेि । नचिकेतसा प्राप्त नाचिकेतम् । मृत्युप्रोक्तं मृत्योः प्रवकृत्वमेव, न स्वतन्त्रवतृत्वम् । अतस्सनातनम् । अप्रैरुषेयवाद प्रवाहरूपेण नियमित्यर्थः ॥ १६ ॥